________________
122
छन्दोदर्शनम्
पदपाठ :- सरस्वति । त्वम् । ब्रह्मणः । पतेः । वाचः ।
आत्मनः । विऽसृष्टं। प्रति। विश्वऽरूपम् ।। अनु । विश्वम् । भूतम् । एतत् । विश्वऽरूंपा।
वाक् । परमा । ज्योतिः । विश्वस्य । दर्शयत् ॥ Oh Sarasvati ! this universe was created by the power of speech of Brahma, your consort. You too followed the creation of this universe by the power of expression. Våk is the great light which illumines the universe.
अन्वयभाष्यम्। हे सरस्वति ! त्वं ब्रह्मणः तव पत्युः आत्मनः परस्मात् सकाशात् वाच: वाङ्मुखात् उच्छ्वासत: विसृष्टं आविष्कृतं भूतं विश्वरूपं एतद् विश्वं अनुसृत्य सा वागपि स्वयं प्रति प्रातिमुख्येन त्वं विश्वरूपा बभूविथ इति अर्थात् सिध्यति, वागेव विश्वं वाचकशक्त्या निरूपयति, तथा रूपयति च वाच्यार्थात्मना इति भावः | तस्मात् सा वागेव विश्वरूपा सती विश्वस्यापि जगतः परा माता जनयित्रीति माता, तथा विश्वजनकस्य जगत्पितुः स्वस्य पत्युः चेतनात्मनः परमपुरुषस्य परब्रह्मणः प्रमात्राी प्रमाणभूता तदवबोधाय, अत एव सा वागेव विश्वस्य जगतः दर्शयत प्रकाशकं परमं ज्योतिः, तथा तत्परञ्ज्योतिःस्वरूपा सा वाग् भवतीति ॥
|| इति द्वितीयेऽनुवाके अष्टमं सरस्वतीसूक्तम् समाप्तम् ||
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! following the omnifarious universe created by Brahmanaspati, you too have become omnifarious. Vāk also assumed as many forms as are existing in the universe by her power of expression. Vāk is manifold. She is the light par excellence, which illumines everything.
Thus ends the eighth hymn in the second Section.
अथ द्वितीयेऽनुयाके नवमं सरस्वतीसूक्तम् |
__ अनुवाकः २ । सूक्तम् ९| ऋचः १-८। सरस्वति त्वं हृदि अष्टौ, देवरातो वैश्वामित्रः, सरस्वती, जगती । Now the Sarasvati Sukta, ninth in Second Anuvaka
Section II, Hymn 9, Riks 1-8 - SARASVATI. This hymn beginning with "Sarasvati tvam hrdi" contains eight Rks. Daivarāta Vaiśvāmitra is the Rshi. Sarasvati is the goddess and the metre is Jagati.