________________
छन्दोदर्शनम्
123
अथ प्रथमा ऋक् । सरस्वति त्वं हृदि प्रतीची चित्ती आत्मानमध्योतानु प्रत्यञ्च सन्तम् ॥ ज्योतिरात्मैव प्रचेतना साऽभवद्
वाग विदा मिथुनं हृदाऽऽत्मनोऽध्यरम् || १ || पदपाठ :- सरस्वति । त्वम् । हृदि । प्रतीची । चित्ती ।
आत्मानम् । अधि । आऽता । अनु । प्रत्यञ्चम् । सन्तम् ।। ज्योतिःऽआत्मा । एव । प्रऽचेतना । सा । अभवत् । वाक् । विदा । मिथुनम् । हृदा । आत्मनः । अधि । अरम् ॥
Oh Sarasvati ! having entered the introvert Atman (pratyagātmā) existing in every heart, you are one with that Atman. You have become the lifegiving light of knowledge. Oh Vāk, by your power of consciousness you are completely identified with the heart, like a veritable couple.
अन्वयभाष्यम् । हे सरस्वति ! त्वं हृदि सर्वेषां प्राणभृतां अस्माकं अन्तर्हृदये प्रतीची प्रत्यङ्मुखा सती चित्ती चित्त्या चेतनाशक्त्या प्रत्यञ्चं प्रत्यग्रूपं सन्तं सत्स्वरूपं आत्मानं चेतनसत्त्वं अनु अनुसृत्य अधि अधिष्ठाय च तस्मिन् एव तत्समाना ओता व्याप्ता सती स्वयमपि ज्योतिरात्मा ज्योतिःशरीरा तदेकात्मिका प्रचेतना सा वागपि बभौ स्वयंप्रकाशसत्त्वैव अभूत्, सर्च एव तेन तादात्म्ययोगात् इति भावः ॥ तस्मात् सा वागेव विदा संविदा ज्ञानप्रकाशनकलया हृदा हृदय्येन तत्समभावेन च आत्मनः अधि अधिकृतं सर्वाधिष्ठानभूतं आध्यात्मकं पूर्ण मिथुन युग्मं तादात्म्ययोगसंसृष्टम्, अत एव अरम् अलंभावपूर्णम् , एतेन तयोः वागात्मनोः परं दाम्पत्यसत्त्वं प्रतिज्ञायते इति ॥
COMMENTARY_SUMMARY TRANSLATION Oh Sarasvati ! having entered the introvert (having the power of introspection ) Ātman, the pratyagātmā, existing in the heart of every creature, you have turned inwards and are abiding with that Atman. The Ātman is full of intelligence on account of this process. Vāk is accepted as the equivalent of Ātman. Vak is identified with the Ātman as if Våk and Ātman are a couple. The seer indicates that Vak and Ātman are like wife and husband.