SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके कविदर्पणे . [द्वितीयोद्देशे [पद्धटिका टचतुष्कं चरमे टे मध्यको, न विषमे जः । टदुगं तगणः खण्डं, चत्वारस्ता मदनावतार इति ॥ २२ ॥] चतुर्मात्रचतुष्कं पद्धटिका । तत्रान्त्ये चतुर्मात्रे मध्यकावेव । न च विषमे जगणः। तथा द्वौ चतुर्मात्रावेकः पञ्चमात्रः खण्डम् । तथा चत्वारः पञ्चमात्रा मदनावतारः । इति शब्दः प्रकारार्थः एतत्प्रकाराणि छन्दांसि सूचयति । एकः षण्मात्रश्चत्वारः समा मध्यकाश्चतुर्मात्रा हेला। अजाः समाः पञ्च चतुर्मात्राः एकः पञ्चमात्रोधिकाक्षरा। द्वौ त्रिमात्रौ त्रयश्चतुर्मात्रा एकस्त्रिमात्रो मञ्जिरी । षट्पञ्चचतुस्त्रिद्विमात्रा अरविन्दमिति पद्धटिकाप्रकाराणि । एकः षण्मात्र एकश्चतुर्मात्र एकस्त्रिमात्र उपखण्डम् । एकः षण्मात्रो द्वौ चतुर्मात्रौ खण्डितेति खण्डप्रकाराणि । एतत् त्रयमवलम्बकाख्यं ज्ञेयम् । पञ्चषट्सप्ताष्टनवपञ्चमात्राणि क्रमात् मधुकरी-नवकोकिला-कामलीला-सुतारा-वसन्तोत्सवाख्यानि मदनावतारप्रकाराणि ॥२२॥ उदा०-धन्नह उद्दामप्रणामरंगि । भालथलि पडिसंकेत चंगि। गुरुसमुद्रसूरि पयनक्खु कंति । कप्पंद्धडिआइ तुलं वहंति ॥२२.१॥ पद्धडिया। [धन्यानामुद्दामप्रणामरङ्गे । भालस्थले प्रतिसंक्रान्ता सुन्दरी । गुरोः समुद्रसूरेः पदनखकान्तिः । कल्पवृक्षस्य तुलां वहति ॥ २२.१॥1 'नक्खु'त्ति द्वितीयतुर्ययोरुपरि पूर्वः (हे० ८.२.९०) इति द्वितीयोपरि प्रथमः ॥ २२.१ ॥ उदा०—वेरि य केसरिसरहओ । साहिय ठ खंड भरहओ। कयसंजमो महारहो । सुब्वइ चक्कीवि भरहो ॥ २२.२ ॥ खंडं । [वैरिणौ केसरिशरभौ । कथितो हि खण्डो भरतः । कृतसंयमो महारथः । श्रूयते चयपि भरतः ॥२२.२॥] स्पष्टम् ॥ २२.२ ॥ उदा०—रोसगुरुगिरिसविसमच्छिमुच्छंतए पलयजलणंमि गयणंमि गच्छंतए । तमि तम्मंतरइवयणनलिणे खणे को खमो हुज मयणावयारक्खणे ॥ २२.३ ॥ [मयणावयारो।] [रोषगुरुगिरिशविषमाक्षिणि मूर्च्छति प्रलयज्वलने गगनं गच्छति । तस्मिस्ताम्यद्रतिवदननालिने क्षणे कः क्षमो भवेन्मदनापदारक्षणे ॥ २२.३ ॥ ] ताम्यद्रतिवदननलिने क्षणे कः क्षमो भवेन्मदनापदारक्षणे अपि तु न कोपि । हेलाधिकाक्षरादीनि स्वयमुदाहार्याणि ॥ २२.३ ॥ १ Is it कप्पज्झडिआइ ? झडिआ (cf. Marathi झाड) is rendered by me as वृक्ष. But this would mean that the name of the metre is your car and not qafeail as the ms. reads. Jain prosodists give the name as पद्धतिका. The Prakrita Paingala, however, gives it as पज्झटिका. See Bib. liotheca Indica edition, p. 217.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy