________________
पं० २०-२२; टी० ५९-६०] सवृत्तिके कविदर्पणे
२७ [चत्वारः चाः टगणो मुक्तावलिका; पटद्विककाः पुनर्वदनम् ।
___ तच्चतुव॑न्तयमितं मडिला पादयोर्द्वयोर्द्वयोश्वाडिला ॥ २१ ॥] चत्वारस्त्रिमात्रा एकश्चतुत्रिी मुक्तावलिका । एकः षण्मात्री द्वौ चतुर्मात्रावेको द्विमात्रः पुनर्वदनम् । तदेव चतुर्वपि पादेष्वन्ते यमकितं मडिला । द्वयोर्द्वयोः पादयोः पुनरडिला ॥ २१ ॥ उदा०-न सुयइ न हसइ न हु सा जंपइ । सुहय तरुणि तुह विरहे संपइ ।
केलिण्हाणभोयणविहिविसए। केवलमुत्ता वलियंससए ॥२१.१॥ मुत्तावलिया। [न स्वपिति न हसति न खलु सा जल्पति । सुभग तरुणी तव विरहे संप्रति ।
केलिस्नानभोजनविधिविषये । केवलमुक्ता वलितं श्वसिति ॥ २१.१ ॥] केवलमुक्ता सती वलियं अत्यर्थं श्वसिति ॥ २१.१॥ उदा०–जउ तुह तिहुयणनाह निहालिउ । तउ मई हेलह(इ) दुहु अवहेलिउ। जउ तुह पवयणु पाविउ सामिय । तउ मह पूरिय सयलवि कामिय ॥२१.२॥
वयणं । [यदा त्वं त्रिभुवननाथ निभालितः । तदा मया हेलया दु:खमवहेलितम् ।
यदा तव प्रवचनं प्राप्तं स्वामिन् । तदा मम पूरितं सकलमपि कामितम् ।। २१.२॥] उदा०-चिरमडिलहं भवरन्नि असत्थ[हं] । जे आसासय धम्मियसत्थहं । पणमह मुणियजिणागमसत्थहं । ताहँ गुरुहँ तिहुयणवि पसत्थहं ॥२१.३॥
[मडिला । [चिरमटनशीलानां भवारण्येऽस्वस्थानां । ये आश्वासका धार्मिकसार्थानाम् ।।
प्रणमत ज्ञातजिनागमशास्त्रेभ्यः । तेभ्यो गुरुभ्यस्त्रिवभुनेपि प्रशस्तेभ्यः ।। २१.३ ।।] चिरमटनशीलानां भवारण्ये अश्व(स्वोस्थानां ये आश्वासका धार्मिकसार्थानां प्रणमत ज्ञातजिनागमशास्त्रेभ्यस्तेभ्यो गुरुभ्यस्त्रिभुवनेपि प्रशस्तेभ्यः । 'अडिलह 'त्ति अटितुं शीलमेषामिति । 'तच्छीलाद्यर्थस्येर' (हे० ८.२.१४५) इति अडिर इति सिद्धे 'रस्य लो वा' (हे० ८.२.३२६) इति लत्वम् ॥ २१.३॥ उदा०-निअडि लयहं परिअडहिं सिलीमुह । मयणि निसिय ससिसिलह सिलीमुह ॥ तुह विरहानलि सुसियवसंतह । पहिय पवेसुवि विसमु वसंतह ॥२१.४॥
अडिला। [निकटे लतानां पर्यटन्ति शिलीमुखाः । मदनेन निशाताः शशिशिलायां शिलीमुखाः ॥
तव विरहानले शुष्कवसान्त्रस्य । पथिक प्रवेशोपि विषमो वसन्तस्य ।। २४.४ ।।] निकटे लतानां कुसुमसौरभात्पर्यटन्ति भ्रमराः । मदनेन निशाताः शशिशिलायां शराः । तव विरहानलशुष्कवसान्त्रस्य हे पथिक प्रवेशोपि विषमो वसन्तस्य दूरे प्रकर्षः ॥ २१.४ ॥
पद्धडिया टचउक्कं चरमे टे मज्झका, न विसमे जो। टदुगं तगणो खण्डं; चउ ता मयणावयारुत्ति ॥ २२ ॥