________________
प० १६-२०]
सवृत्तिके कविदर्पणे [विषमयोद्वौं टगणौ समयोः पष्टस्ततो द्वयोरपि यत्र।
लघुः कगणो लघुः कगणस्तां जानीत मागधिकाम् ॥ १८ ॥] विषमयोझै चतुर्मात्रौ समयोः पादयोरेकः षण्मात्रः एकश्चतुर्मात्रस्ततो द्वयोरपि पादयोर्लघुकः कगणो लघुकः कगणो यत्र तां मागधिकां 'मुणह 'त्ति 'ज्ञो जाणमुणौ' (हे० ८.४.७) इति जानीत । लकलकत्ति सिद्धे लहुओ इत्यादि सूत्रवैचित्र्यार्थम् ॥ १८ ॥ उदा०—किमिच्छह जुवइसंगमं । जाणतावि जणा जिणागमं ॥
समणो किल कूलवालओ। मागहियाइ कओ दुहालओ ॥१८.१॥ मागहिया। [किमिच्छथ युवतिसंगम । जानन्तोपि जना जिनागमम् ।।
श्रमणः किल कुलवालक: । मागधिकया कृतो दुःखालयः ॥१८.१।।] किलेल्याप्तोक्तौ । कुलवालको व्रती । मागधिकाख्या वेश्या । तत्कथा चाम्नायगम्या॥१८.१॥
टा चउरो जो ण मुहे गुरुच्चियंतिल्लओ लहू नवमो। मत्तासमयं; पंचमअट्ठमलहुणो उ विसिलोओ ॥ १९ ॥
[टाश्चत्वारो जो न मुखे गुरुरेवान्तिमो लघुर्नवमः।
मात्रासमकं; पञ्चमाष्टमौ लघू तु विश्लोकः ॥ १९ ॥] चत्वारश्चतुर्मात्रास्तेष्वादौ न जगणः । अन्ते भव इति डिल्ले (हे०८.२.१६३) अंतिल्लो अन्त्यो गुरुरेव नवमो लघुर्मात्रासमकम् । पञ्चमाष्टमौ लघू पुनर्विश्लोकः । शेषमुपचित्रां यावन्मात्रासमकवत् ॥ १९॥ उदा०—निगमिज्जंतं विसउम्मत्ता-। समयं मन्नहि [अबुहा सत्ता।
न उणो कालिण निगमिजंतं । अप्पाणं चिंतहि निभंतं ॥ १०॥ मत्तासमयं ।
[निगम्यमानं विषयोन्मत्ता: समयं मन्यन्ते अबुधाः सक्ताः ॥ ]
न पुनः कालेन निगम्यमानम् । आत्मानं चिन्तयन्ति निभ्रान्तम् ॥ १९.१॥ उन्मत्ता पहिलाः । समयं कालम् । निभंतं भ्रान्तिहीनम् ॥ १९.१ ॥ उदा०—निच्चुवि नवं करेवि सिलोयं । आवज्जिवि नवनवपहुलोयं ॥
जहि किज्जइ उयरह पूरणयं । तं पंडियत्तमिह आयुखयं ॥१९.२॥ विसिलोऊ ।
[नित्यमपि नवं कृत्वा श्लोकम् । आवर्ण्य नवनवप्रभुलोकम् ।।
यदि क्रियते उदरस्य पूरणम् । तत्पण्डितत्वमिहायुःक्षयम् ॥ १९.२ ।।] चित्ता नवमोवि हु, वाणवासिया नवमबारसा लहुणो ॥ नवमगुरू उवचित्ता; पायाउलयं इमाण पाएहिं ॥ २० ॥ [चित्रा नवमोपि खलु वानवासिका नवमद्वादशौ लघू ।
नवमगुरुरुपचित्रा; पादाकुलकमेतेषां पादैः ॥ २०॥] नवमो लघुः । अपिशब्दात्पञ्चमाष्टमौ लघू चित्रा। हुर्निश्चये। नवमद्वादशौ लघू वानवासिका ।