________________
वृत्ति कविदर्पणे
[ अस्थिरा एव जीव विभवाः पश्य प्रत्यक्षं ध्वजा इव पवनप्रहताः । अजरामर इव व्यवहरति जीवलोकस्तथापि हा साहसिकः ।। ९.४ ।। स्पष्टम् । सर्वगीतिस्कन्धभेदोदाहरणानि व्यासभयान्नोक्तानि । ९.४ ॥ गीइविसेसा चउरो रिउछंदाई इहत्थि अवरेवि । गाहपमुहा य गाहाइ अट्टभेया जओ भणियम् ॥ १० ॥
१. ९-१३; टी. प. ४४-४५]
[ गीतिविशेषाश्चत्वारो रिपुच्छन्दाया इह सन्त्यपरेपि । गाहप्रमुखाश्च गाथाया अष्ट भेदा यतो भणितम् ॥ १० ॥ ]
गीतेर्विशेषाश्चत्वारो रिपुच्छन्दाधा इह प्रकरणे अपरेपि 'अस्थि 'त्ति सन्ति ' अस्थिस्त्यादिना ' (हे० ८·३·१४८) इति अत्थिः । गाथप्रमुखा गाथाया अष्टभेदाः सन्ति । चकाराज्जातीफलं नवमम् । यतो भणितं शास्त्रान्तरे ॥ १० ॥
गीइ रिउच्छंदा सत्तमंमि तगणे, तइज्जए ललिया । . दुहिं भद्दिया, विचित्ता जहिच्छतगणा विणा छठ्ठे ॥ ११ ॥
गाहा मुहदल अंतिमगुरुपच्छा दुन्न दुन्न टगणाण । बुढी कमा गाहो उग्गाह - विगाह- अवगाहा ॥ १२ ॥ संगाही उवगाहो य गाहिणी अह जहिच्छविहियाए । दुदुगणविबुढी मालागाहो महाछंदो ॥ १३ ॥
[ गीतिः रिपुच्छन्दाः सप्तमे तगणे, तृतीये ललिता । द्वाभ्यां भद्रिका, विचित्रा यथेच्छतगणा विना षष्ठम् ॥ ११ ॥ गाथा मुखदलान्तिमगुरोः पश्चाद् द्वयोर्द्वयोष्टगणयोः । वृद्ध्या क्रमात् गाथ उद्गाथविगाथावगाथाः ॥ १२ ॥
संगाथ उपगाथश्च गाथिनी अथ यथेच्छविहितया । द्विद्विगणविवृद्धया, मालागाथो महाछन्दः ॥ १३ ॥ ]
आद्यगाथाया 'गीइ 'त्ति सर्वत्र योज्यम् । गीतिरेव सप्तमे तगणे पञ्चमात्रे रिपुच्छन्दाः । गीतिरेव तृतीये तगणे ललिता । गीतिरेव द्वयोस्तृतीयसप्तमतगणयोर्भद्रिका । गीतिरेव षष्ठगणं विना यथेच्छं तगणैर्विचित्रा । तथा गाथाया मुखदले अन्तिमस्य गुरोः पश्चादेकटगणवृद्धया जातिफलमनुक्तमपि ज्ञेयम् । द्वयोर्द्वयोष्टगणयोर्वृद्ध्या क्रमात् गाथ-उद्गाथ-विगाथ - अवगाथाः संगाथ उपगाथश्च गायनीति स्युः। अष्टभिष्टगणैर्जातिफलं नवभिर्गाथ एकादशभिरुद्वाथस्त्रयोदशभिर्विगाथः पञ्चदशभिरवगाथः सप्तदशभिः संगाथः एकोनविंशत्योपगाथ एकत्रिंशत्या गाथिनीत्यर्थः । अथ यथेच्छं विहितया न तु प्रमितया द्विद्विगणविवृद्धया मालागायो महाच्छन्दः स्यात् । अमितटगणत्वाच्चास्य महाशब्दः । सर्वेषु चैतेषु जातिफलादिषूत्तरार्धं गाथा एव ॥ ११ - १३॥