________________
सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे उद्गीतिः। पूर्वार्धे अपरार्धमपरार्धे पूर्वार्धमित्यर्थः । एवं तिस्रोपि गीतयः पथ्याविपुलाचपलाभेदसंयोगेषोडशषोडशभेदाः स्युस्ततः सर्वाग्रेण गाथानां चतुःषष्टिभेदाः । यदाह
एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः। चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्याः स्युः ॥ ४४ ॥ गीतीनां त्रयमित्थं प्रत्येकं षोडशप्रकारं स्यात् ।
साकल्येनार्याणामिमे विकल्पाश्चतुःषष्टिः ॥ ४५ ॥ तथा गीतिरेवाष्टमस्य गुरोः स्थाने टगणे कृते स्कन्धम् । आर्यागीतिरिति पिङ्गलः । लघुचतुष्कात् द्विद्विलघुवृद्धया चेदं स्कन्धमेकोनत्रिंशद्विधं यथा-'पिम्मो शल्लो पाणी पहिओ पउरो परायणो परमो' इत्यादिगाथात्रयम् । तथा दलद्वयेपि षष्ठे लघावुपस्कन्धम् । प्रथमाधै षष्ठे लघावुत्स्वन्धम् । अन्त्यार्धे षष्ठे लघाववस्कन्धम् । पूर्वार्धे स्कन्धमपरार्धे गीतिस्तथा पूर्वार्धे गीतिरपरार्धे स्कन्धकमिति संकीर्णस्कन्धमपि स्कन्धोपलक्षणाज्ञेयम् ॥ ९॥
उदा०-जउगोलव्व विभिजंति इत्थिआग्गीइ संगया बहवे ।
तीइवि कणयंपिव जे उ णिम्मला ते पुणो जए विरला ॥ ९.१ ॥ [जतुगोला इव विभिद्यन्ते स्त्र्यग्निना संगता बहवः ।
तस्यामपि कनकमिव ये तु निर्मलास्ते पुनर्जगति विरलाः ।। ९.१ ॥] . 'कणयंपिव 'त्ति 'मिव पिव विव व्व व विअ इवार्थे वा' (हे० ८.२.१८२) इति विवस्थाने पिवः ॥९.१॥
उदा०-उव गीईइ कुरंगुव्व मोहिओ ससिमुहीइ जणो।
हम्मइ वम्महवाहेण निद्दयं पुंखियसरेण ॥९.२ ॥ [पश्य गीत्या कुरङ्ग इव मोहितः शशिमुख्या जनः ।
हन्यते मन्मथव्याधेन निर्दयं पुखितशरेण ॥ ९.२ ॥] 'उय' इत्यव्ययं पश्येत्यर्थे । उपगीतिपक्षे तु 'कगचजतदपयवां प्रायो लुक्' (हे०८.१. १७७) इति पलुक् । पो व इति तु प्रायिकम् । 'हम्मइ 'त्ति 'हन्खनोन्त्यस्य' (हे० ८.४.२४४) इति म्मः ॥९.२॥
उदा०—किज्जइ तीइ तुह गुणुग्गीइविणोओ विरहदुःखे।
लुप्पइ बाहुप्पीलेण नवर वरईइ भक्खणं कंठो ॥ ९.३ ॥ [क्रियते तया तव गुणोद्गीतिविनोदो विरहदुखे।।
लुम्पति बाष्पोत्पीडेन केवलं वराक्या भक्षणं कण्ठः ॥ ९.३ ॥ — 'वरईइ 'त्ति वराक्याः । 'स्वराणां स्वरा' (हे. ८.४.२३८) इति ह्रस्वः ॥ ९.३ ॥ उदा०-अथिरजि जिव्व विहया उअ पच्चखं धया इव पवणपहया।
अजरामरुव्व ववहरइ जीवलोओ तहावि हा साहसिओ॥९.४॥