________________
प. ८.१-६. टी. प. ५-९] सवृत्तिके कविदर्पणे उदा०-कलमलयदाहमुच्छा विंछुयडंकुब्व देइ पढमंपि।
पच्छावि जण हणंतो अच्छइ सुचिरंपि पिअविरहो ॥ ८.१ ॥ पच्छा ।।
[चित्तक्षोभदाहमूर्छा वृश्चिकदंश इव ददाति प्रथममपि ।।
पश्चादपि जनं मन् भवति सुचिरमपि प्रियविरहः ॥ ८.१ ॥] " 'कलमलय'त्ति चित्तक्षोभम् । 'विच्छुय' त्ति वृश्चिके 'श्चेञ्चुर्वा' इति (हे० ८.२.१६) इति ञ्चुरादेशः ॥ ८.१॥ उदा०-गुजरविलयाण सहावविमलविउलाणणाण सकलंको ।
वंको य कुणइ भवणंमि कुंभदासत्तणं चंदो ॥ ८.२॥ विउला । _ [गुर्जरवनितानां स्वभावविमलविपुलाननानां सकलङ्कः ।।
वक्रश्च करोति भवने कुम्भदासत्वं चन्द्रः ॥ ८.२ ॥ 'वनितायाः विलया' (हे० ८.२.१२८) इति विलयादेशः । संस्कृतो वायं शब्द इति केचित् ॥८.२॥ उदा०-कटुरवअसंखहयधंखपमुहविउलाउलंमि मरुदेसे।
हो कीस हंस मानसनिवासदुल्ललिय पत्तोसि ॥ ८.३॥ मुहविउला । [कटुरवासंख्यहतध्वाङ्गप्रमुखविकुलाकुले मरुदेशे ।
हो कस्माद्धंस मानसनिवासदुर्ललित प्राप्तोसि ॥ ८.३ ॥ 'विउलाउलंमि'त्ति वीनां पक्षिणां कुलैराकुले ॥ ८.३ ॥ उदा०-गिरिमालियव्व बाला वरोरुपाया नियंबविउला य ।
उत्तुंगपयोहरपिहियपिहुलवच्छा य हरइ मणं ॥ ८.४॥ नियंबविउला ।
[गिरिमालिकेव बाला वरोरुपादा नितम्बविपुला च ।
__ उत्तुङ्गपयोधरपिहितपृथुलवक्षाः(वृक्षा] च हरति मनः ॥ ८.४ ॥ एकत्र वरमुरुपादं पक्षे वरा उरवो विपुलाः पादाः प्रान्ताचला यस्याः। एकत्र पयोधराभ्यां पिहितं पृथुलं 'वच्छ'त्ति वक्षः उरः । पक्षे पयोधरैः पिहिताः 'वच्छ'त्ति 'छो अक्ष्यादौ' (हे० ८.२.१७) इति वृक्षाः यस्याः॥ ८.४॥ उदा०-न छमच्छमन्ति जेसिं मणाई लीलाहिं लोलनयणाण ।
तेसिं मुणीण पाए नमामि निच्चं अचवलाण ॥ ८.५॥ चवला ।
[न व्याकुलीभवन्ति येषां मनांसि लीलाभिलालनयनानाम् ।
. तेषां मुनीनां पादान्नमामि नित्यमचपलानाम् ॥ ८.५ ॥] स्पष्टा ॥ ८.५॥ उदा०-अम्मो महाणुभावेहिं मत्तपंकयमुही भमुहचवला ।
जेहिं सयंचिय छड्डिय छलिया लच्छी नमो तेसिं ॥ ८.६॥ मुहचवला । [अम्मो महानुमावैः मत्तपङ्कजमुखी भ्रूचपला । यैः स्वयमेव त्यक्त्वा छलिता लक्ष्मीनमस्तेभ्यः ॥ ८.६ ॥].