SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प. ४-७] सवृत्तिके कविदर्पणे दुइया छटे पढमाउ सत्तमे लाउ कुणह उवलिदले। नलहुंमि पंचमे पढमयाउ इह तलदले विरइं ॥५॥ [द्वितीयात् षष्ठे प्रथमात्सप्तमे लात्कुरुत उपरिदले । नलघौ पञ्चमे प्रथमादिह तलदले विरतिम् ॥ ५॥] 'इह 'त्ति गाथाच्छन्दसि उपरिदले पूर्वार्धे षष्ठे गणे 'नलडंमि' त्ति नगणश्च लघुश्च नलघुस्तस्मिन्नलघौ चतुर्लघौ सति द्वितीयात् 'लाउ' लघोरारभ्य विरतिं कुरुत। षष्ठनलघोराद्यलघौ यतिरित्यर्थः । 'लाउ'त्ति 'नलहुंमि' त्ति च सर्वत्र योज्यम् । तत्र सप्तमे नलघौ प्रथमाल्लघोरारभ्य कुरुत । षष्ठगणान्ते यतिरित्यर्थः । तथा तलदले द्वितीयार्धे पश्चमे नलघौ सति प्रथमकाल्लघोरारभ्य विरतिं कुरुत । चतुर्थगणान्ते यतिरित्यर्थः। मात्राच्छन्दस्यपि लाघवार्थ 'ज''ल'गणप्रयोगः । इयं प्राचीनगाथा लाघवार्थ लक्ष्यलक्षणयुक्ता कृता ॥ ५॥ गाहागणभेयपरुप्परगुणणे अट्रकोडि अह लक्खो। एकूणवीस; वीस य सहस्स से भेयपरिसंखा ॥ ६ ॥ [गाथागणभेदपरस्परगुणने अष्टौ कोटयोऽथ लक्षाः । एकोनविंशतिः, विंशतिश्च सहस्राणि भस्या भेदपरिसंख्या ॥ ६ ॥] . गाथायां दलद्वये गणभेदानां टगणविकल्पानां परस्परगुणने अन्योन्यघाते अष्टौ कोट्य एकोनविंशतिर्लक्षा विंशतिश्च सहस्राणि 'से' अस्या गाथायाः प्रस्तारभेदपरिसंख्या स्यात् । वेदं तदेतदोडसाम्भ्यां सेसिमौ' (हे०८.३.८१) इति इदमः से आदेशः। कोडी लक्खुत्ति लुप्तविभक्तिके पदे तु 'अंतोऽथादिषु शब्देषु न पूर्वगः' इति सर्वत्र नेयमित्यक्षरार्थो भावार्थस्तु पूर्वार्धे प्रथमे टगणे भेदाश्चत्वारो यथा SS; IIS; SII; IIII; द्वितीये पञ्च SS, IIS; SII; ISI; IIII; तृतीये चत्वारः SS; IIS; SII; IIII; चतुर्थे पञ्च SS; IIS; SII; ISI; IIII; पञ्चमे चत्वारः SS; IIS; SII; IIII; षष्ठे द्वौ ISI; IIII; सप्तमे चत्वारः SS; IIS; SII; IIII; अष्टमे गुरुरेकः । एतेषामन्योन्यघाते द्वादश सहस्राणि अष्टौ शतानि । एवं तलार्धपि । नवरं षष्ठे लघुन्येको विकल्पोन्योन्यघाते षट्सहस्राणि चत्वारि शतानि । दलद्वयताडने यथोक्तसंख्येति। अतिप्रसिद्धत्वाद्गाथायाः प्रस्तारसंख्योक्ता । शेषाणामप्युक्तवक्ष्यमाणानामनया दिशा ज्ञेया ॥ ६ ॥ दलदुगमुहे तिगणजइ गाहा पत्था; तयन्नहा विउला । चवला गुरुपरिखित्तेहिं दुइयतुरिएहिं जगणेहिं ॥ ७ ॥ [दलद्विकमुखे त्रिगणयतिर्गाथा पथ्या; तदन्यथा विपुला। चपला गुरुपरिक्षिप्तैः द्वितीयतुरीयैर्जगणैः ॥ ७ ॥] दलद्विके मुखे आदौ त्रिषु गणेषु यतिर्यस्याः सा गाथैव पथ्याख्या । 'तयन्नह'त्ति तस्याः पथ्याया अन्यथा गणत्रयमुल्लङ्घ्य यतिर्यस्याः [सा] विपुलाख्या । उभयोर्गुरुणा परिक्षिप्ताभ्यां वेष्टिताभ्यां द्वितीयचतुर्थाभ्यां जगणाभ्यां विशिष्टा विपुलाख्या ॥७॥ विउला चवला य तिहा सव्वमुहनियंबभेयओ नेया। अन्नेवि बहू भेया केहिवि गाहाइ भन्नन्ति ॥ ८॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy