________________
सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे अहलहुविरइयाओ पढमा उल्लालयंमि छंदमि । लहुएहिं दोहिं दोहिं हुंति इमे वढमाणेहिं ॥ ३ ॥ [अष्टलघुविरचितात्प्रथमादुल्लालके छन्दसि ।
लघुभ्यां द्वाभ्यां द्वाभ्यां भवन्तीमे वर्द्धमानाभ्याम् ॥ ३॥] मौक्तिकदाम तु गतार्थम् । अनुप्रासः पादद्वयस्यार्थादेवेति नोक्तः ॥ उदा०–सुरकुंभिकुंभसिंदूरभरु हरिदिसिकुंकुममंडणु।
पसइच्छि पिच्छि जोइक्खु जिम्व बालायवु तमखंडणु ॥३.१॥ कुंकुमो। [सुरकुम्मिकुम्भसिन्दूरभरो हरिदिक्कुङ्कुममण्डनम् । .
प्रसृताक्षि प्रेक्षस्व ज्योतिष्क इव बालातपस्तमःखण्डनः ॥ ३.१ ॥] उदा०–आयंबलोललोयणजुयल उल्लालय जीवियमयण ।
कप्पूरधवल सोहइ सलिलकेलिकालि कामिणिवयण ॥३.२॥ कप्पूरो । [आताम्रलोललोचनयुगलं आालकं जीवितमदनम् ।
कर्पूरधवलं शोभते सलिलकेलिकाले कामिनीवदनम् ॥ ३.२ ॥] उल्लालयत्ति 'उदोद्वाई' (हे० ८.१.८२) इत्याद्रादेरुति उल्लम् । अलकं प्रतीतम् । उदा०—संकलबंधसहोयर सोहिर मुत्तियदामनिवेसमणोहर ।
वम्महनिवपायडनिहिकलस कवणु न हु मोहइ तरुणिपयोहर ॥३.३॥ मुत्तियदामं । [शृङ्खलाबन्धसहोदरः शोभमान: मौक्तिकदामनिवेशमनोहरः ।
मन्मथनृपप्रकटनिधिकलशः कं न खलु मोहयति तरुणीपयोधरः ॥ ३.३ ॥] स्पष्टम् । एवं चतुःषष्टिभेदास्ते तु विस्तरभयान्नोक्ताः ॥३॥ द्विपदीप्रकरणम् । अथ चतुष्पदी कुलकेनाह
मुनिटा गुरु तत्थ न जो विसमे छट्टे उ मज्झका पढमे । बीए उ दलंमि लहू छटे सेसं समं गाथा ॥ ४ ॥
[मुनिटा गुरुः, तत्र न जो विषमे; षष्ठे मध्यकौ; प्रथमे ।
द्वितीये तु दले लघुः षष्ठे; शेषं समं गाथा ॥४॥] सप्त चतुःकला गुरुश्च प्रथमे दले अर्धे । अत्रापवादः । तत्थत्ति । तत्र तेषु सप्तटेषु विषमे स्थाने प्रथमे तृतीये पश्चमे सप्तमे न जुत्ति न जगणः । शेषाश्चत्वारः स्युः । षष्ठे पुनर्मझकत्ति मध्ये कगणो गुरुर्लघुद्वयं
च ययोस्तौ मध्यको मध्यगुरुः सर्वलघुः (ISI; III)। शूरपरिभाषेयं पूज्यप्रयुक्ता सर्वेत्यर्थाज्ञया । द्वितीये तु दले षष्ठो लघुरेकः । शेषं समं पूर्वार्धवत् यस्यां सा गाथा स्यात् । दलग्रहणादस्यां न पादव्यवस्था । तेन 'द्वीपादन्यस्मादपि' इत्यादौ गणत्रयान्ते लघोन गुरुत्वम् । केचिदिहापि पादमुद्रामाद्रियन्ते यत्रिलोचनदासः-'वृत्तानामार्यादीनां च चतुर्थो भागः पाद इह गृह्यते' इति । संस्कृते तु गाथैवार्याख्या यथा--
लावण्यसलिलसंकुलधनकुचमण्डलकमण्डलुविलासम् । सुतनोर्मदनमहामुनितपोवनं यौवनं जयति ॥४॥ ॥४॥