________________
द्वितीयोदेशः। मात्राच्छन्दोऽधुना प्राप्तं छन्दोजातिभिः संगृह्णन्नाह
एकारसजाईओ मत्ताच्छंदे हुवंति एयाओ। बिचउसरछमुणिवसुनवदशहररविसोलसपइत्ति ॥ १ ॥ [एकादशजातयो मात्राच्छन्दसि भवन्त्येताः ।
द्विचतुःशरषण्मुनिवसुनवदशहररविषोडशपद्य इति ॥१॥] एकादश जातयो मात्राच्छन्दसि भवन्त्येताः इत्यनन्तरोक्ताः द्विचतुःशरषण्मुनिवसुनवदशहररविषोडशपद्याख्याः । पदीपदं प्रत्येकं ज्ञेयम् । द्विपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपदी अष्टपदी नवपदी दशपदी एकादशपदी द्वादशपदी षोडशपदीत्यर्थः । इति विविक्तार्थो मात्राच्छन्दःसंग्रहार्थः । जातीनामित्थं विवक्ते(?)यं कल्पनेत्यर्थः । नत्वेवं कविडं फो(?)रस्ति । नवेदमशास्त्रीयम् । पञ्चपदीषट्पद्यष्टपदीनां शास्त्रे व्यक्तोक्तत्वात् । सप्तपदीनवपदीदशपद्येकादशपदीद्वादशपदीनां द्विभङ्गीत्रिभङ्गीत्वात् । षोडशपद्याः कडवकत्वात् । तथा प्रायः सानुप्रासा एता इति ॥ १॥ तासु द्विपदी युग्मेनाह
कदुगं टो कदुगलहू कदुगं टो कदुगदुलहुणो दोसु । पाएसु कुंकुमो; तह कप्पूरो एगलघुबुढो ॥२॥ पन्नरसकलाहिं जई, एए उल्लालयत्ति बंदीण । तं मुत्तियदामं जत्थ अटुटा; बारसट्ठ जई ॥३॥ [कद्विकं टः कद्विकं लघुः कद्विकं टः कद्विक द्वौ लघू द्वयोः । पादयोः कुकमः; तथा कर्पूर एकलघुवृद्धः ॥२॥ पञ्चदशकलाभिर्यतिरेतावुल्लालकाविति बन्दीनाम् ।
तन्मौक्तिकदाम यत्राष्ट टा द्वादशोष्टमश्च यतिः ॥ ३ ॥] द्वौ द्विमात्रावेकश्चतुर्मात्रो द्वौ द्विमात्रावेको लघुर्ती द्विमात्रावेकश्चतुर्मात्रो द्वौ द्विमात्रौ द्वौ लघू द्वयोः पादयोः कुङ्कमो द्विपदी। 'ट' इति सिद्धे 'क'द्विकनिर्देशो जगणनिरासार्थः । तहत्ति । तथा कुङ्कमवदेव कर्पूरो द्विपदी । किंत्वेकलघुवृद्धः अन्ते लघुनाधिक इत्यर्थः । पञ्चदशकलाभिरनयोः प्रत्येक पादद्वये यतिरेतावुल्लालकाविति बन्दीनां भाषासु प्रसिद्धावित्यर्थाज्ञेयम् । कर्पूरकश्च कैश्चिल्लघुष्टकादारभ्य द्विद्विलघुवृद्धया पञ्चविंशतिधा प्रोक्तो यथा
वाहो बोहो वग्गो बंधू बाणो गओ वरो वेसो। वेणू वणो वरिठ्ठो विबुहो बलिओ बलो विहओ ॥१॥ कामो बुहो विसालो विंदो विहुरो विहू वसू विरहो । विलओ तहा य विसओ उल्लाला पंचविंसत्ति ॥ २॥