________________
सवृत्तिके कविदर्पणे [प्रथमोद्देशे टी. प. २४-३१
स्यादस्थानोपगतयमुनासंगमेनाभिरामा ॥२४॥ परादिद्भावो यथा
. स्कन्धे विन्ध्याद्रिबुद्धथा निकषति महिषस्याहितोसूनकार्षीत् ॥ २५॥ अत्र हि स्वरस्य परादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात्तद्वत् ।
* द्रष्टव्यो यतिचिन्तायां याद्यादेशः परादिवत् ॥ २३ (उ०) ॥ यवाद्यादेशः परादिवदृष्टो यथा- .
तमोलीढानि भुवनान्यव्याद्भव्याय भास्करः।
उन्मादिवादिकुमुदेष्वास्यमुद्रां ददजिनः ॥ २६ ॥
* नित्यं प्राक्पदसंबद्धाश्चादयः प्राक्पदान्तवत् ॥ २७ (पू०)॥ चादिभ्यः प्राग् यतिर्न कार्या यथा
स्वादु स्वच्छंच सलिलमिदं प्रीतये कस्य न स्यात् ॥२८॥
* परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ॥ २७ (उ०)॥ प्रादिभ्यः परा यतिन कार्या । यथा- ..
दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वद्वियोगः ॥२९॥ किं चानिर्दिष्टयतिकेपि छन्दसि यतिः श्रुतिसुखैव कार्या । न त्वेवं यथा
दोषनिचयधाम्नो मुखमनोहरस्य परिणामविषमस्य ।
तस्य शशिमुखि-विषयसुखरसस्य पततु कुलिशं शीर्षे ॥३०॥ केचित्तूक्तादिषु यतिनियमं न मन्यन्ते । यत्स्वयंभूः
___ जयदेवपिंगला सक्कयंमि दुच्चिय जई समिच्छन्ति ।
मंडव्वभरहकासवसेयवपमुहा न इच्छन्ति ॥ ३१॥ [जयदेवपिङ्गलौ संस्कृते द्वावेव यति समिच्छन्ति ।
माण्डव्यभरतकाश्यपसैतवप्रमुखा नेच्छन्ति ॥३१॥] अस्यास्त्वर्थो यथा—उक्ताद्यं संस्कृतच्छन्दो रिपुच्छन्दाद्यं प्राकृतच्छन्द उत्साहाद्यमपभ्रंशं च्छन्दः उक्तम् । प्रायोमीषां तत्तद्भाषासु निबन्धात् । तत्र प्राकृतापभ्रंशच्छन्दसोः सर्वसंमतैव यतिः । संस्कृत-. च्छन्दसि तु जयदेवपिङ्गलावेवेच्छतो यतिं माण्डव्यभरतकाश्यपसैतवादयस्तु नेच्छन्ति । ततो यद्भग्नयति संस्कृतच्छन्दो दृश्यते तन्मतेन तत्प्रमाणमिह तु शास्त्रे न संस्कृतादिपद्धत्या छन्दःसंदर्भः। किंतु लाघवार्थं विशृङ्खल इति ॥ ७॥८॥
इति श्रीकविदर्पणच्छन्दोवृत्तौ प्रथमोद्देशः।