________________
प. ७-८; टी. प. ७-२३] सवृत्तिके कविदर्पणे
कुलीनाः सरसाः सौरभ्यदन्तुरितदिङ्मुखाः।
नानन्दयन्ति कं चन्दनद्रुमा इव सजनाः ॥१३॥ सेति सर्वत्रानुवृत्तं तेन सा नियमेन विशेषेण पादद्वयान्ते स्यात् । अत्र च संधिकार्याभावः स्पष्टविभक्तित्वं च नियमो यथा
नोत्साहं कुर्वते छेकाः प्रशंसाभिरतद्विदाम् ।
अन्धैः स्तुतेषु चित्रेषु प्रकर्षः को हि शिल्पिनः ॥१४॥ अत्रान्धैरित्यस्य पूर्वमकारेण संधिर्न कार्यः । स्पष्टविभक्तित्वं चात्रैव । न त्वेवं यथा
अमन्दवेदनोत्पादिरागादिगदमण्डली
मूलोच्छेदमहावैद्यमाद्यं जिनमुपास्महे ॥१५॥ न केवलं पादान्तश्लोकार्धयोस्त्रिप्रमुखच्छिन्नपदान्ते च । त्रयः प्रमुखाः एषां चतुरादीनां तैश्छिन्नस्य विभक्तस्य पदस्य विभक्त्यन्तस्य चान्ते सा स्यात् । इहापि लुप्तालुप्तविभक्तिके इति ज्ञेयम् । यथा
उत्तुङ्गस्तनकलशद्वयानताङ्गी । लोलाक्षी विपुलनितम्बशालिनी च ॥१६॥ त्रयाणां मध्ये न क्वापि छन्दसि विरतिरिति त्रिप्रमुखेत्युक्तम् । न च पदान्त एव किंतु 'पयमझेविहु'त्ति पदमध्येपि क्वचित् त्र्यादौ सा स्यात् । 'हु'रव्ययं निश्चयपरम् । पदस्य खण्ड्यमानस्य पूर्वोऽपरश्च भागश्चेदनेकाक्षरस्तदेवायं यतिनिश्चयो यथा
रथा रम्या ऐरावणविजयिनी वारणपदा ॥१७॥
कूजत्कोयष्टिकोलाहलमुखरभुवः प्रान्तकान्तारदेशाः ॥१८॥ न त्वेवं यथा
एतासां राजति सुमनसां दाम कण्ठावलम्बि ॥ १९ ॥ पदमध्ययतिमपवदति । नवरं केवलार्थेत्यव्ययम् । पदमध्ययतिः पदान्ते नैव । नियमान्न कार्या । यथा
प्रणमत भवबन्धक्लेशनाशाय नारा
यणचरणसरोजद्वन्द्वमानन्दहेतुम् ॥२०॥ एतदर्थसंवादिश्लोकौ यथा
यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः । व्यादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके ॥२१॥ क्वचित्तु पदमध्येपि गकारादौ यतिर्भवेत् ।
यतिपूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥२२॥ इदं च श्रुतिसुखविरतिश्चेति चकाराज्ञेयम्
* पूर्वान्तवत्स्वरः संधौ क्वचिदेव परादिवत् । २३ (पू०)। योयं पूर्वापरयोरेकादेशः स्वरः संधौ क्रियते स क्वचित्पूर्ववत्स्यात् । क्वचित्परादिवत्स्यात् । उभयादेशत्वात् । यथा पित्रोः पुत्रः पितुश्च मातुश्च भवति । तत्र पूर्वान्तवद्भावो यथा