________________
- सवृत्तिके कविदर्पणे
[प्रथमोद्देशे मात्राच्छन्दसि कचटतपनामानः पञ्च गणा ज्ञेयाः । ते च यथासंख्यं द्वित्रिचतुःपञ्चषट्कलाः द्वित्रिपञ्चाष्टत्रयोदशभेदवन्तः । 'आल्विल्लोल्लालवन्तमन्तत्तेरमणामतो'रिति (हे० ८.२.१५९) वतः स्थाने इल्लः । कला तन्मात्रा । द्विकलो द्विभेदः कगणः II; S; त्रिकलस्त्रिभेदश्चगणः IS; SI; III; चतुष्कल: पञ्चभेदष्टगणः SS; IIS; ISI; SII; IIII; पञ्चकलोष्टभेदस्तगणः ISS; SIS; IIIS; SSI; IISI; ISII; SIII; IIIII; षट्कलस्त्रयोदशभेदः पगणः SSS; IISS; ISIS; SIIS; IIIIS; ISSI; SISI; IIISI; SSII; IISII; ISIII; SIIII; IIIIII ॥२॥ वर्णगणानाह
वनच्छंदे उण हुंति सचमुहमज्झअंतगुरुलहुणो। कमसो मना भया तह जरा सता नाम अट्ठ तिगे ॥३॥ [वर्णच्छन्दसि पुनर्भवन्ति सर्वमुखमध्यान्तगुरुलघवः ।
क्रमशो मनौ भयौ तथा जरौ सतौ नामाष्ट त्रिकाः ॥३॥] वर्णच्छन्दसि पुनर्भवन्ति गणाः । किंसंज्ञाः । मनौ भयौ जरौ सतौ नाम । किंकिंरूपौ । सर्वमुखमध्यान्तगुरुलघवः कमसो यथाक्रम कोर्थः । सर्वगुरुलघू मनौ । मुखगुरुलघू भयौ । मध्यगुरुलघू जरौ । अन्तगुरुलघू सतौ । लाघवेन लक्षणं निर्वक्तुं द्वौद्वावुक्तौ 'मयरसभजतन' इति मूलक्रमश्च लचितः । सर्वेपि ते कतीत्याह । अष्ट । चतुर्गुर्वादीनामपि मा भून्मादिसंज्ञा इति नियमार्थमाह-तिगत्ति । त्रिकास्त्रयः प्रमाणमेषामिति त्रिकाः । प्राकृतत्वात् यस्थाने ग उक्तः । मना इत्यादिषु द्विवचनस्य बहुवचनं जस् । तहत्ति च्छन्दःपूरणे । सर्वेषां न्यासः SSS मः । III नः। SII भः । ISS यः। ISI जः। SIS रः। IIS सः। SSI तः । उभयच्छन्दस्तु मात्रावर्णच्छन्दःसंकर इति न तत्र पृथग्गणा इति ॥३॥
गुरुलवत्राह
दीहं सबिंदु वंजणविसग्गसंजोगपरमिह दुमत्तं । वंकं गुरु इयरं लहु वा पायंते इमंपि गुरु ॥ ४ ॥ [दीर्घ सबिन्दु व्यञ्जनविसर्गसंयोगपरमिह द्विमात्रम् ।
वक्रं गुर्वितरलघु वा पादान्त इदमपि गुरु ॥ ४ ॥] दीर्घ आईऊऋएऐओऔरूपम् । सबिन्दु सानुस्वारम् । व्यञ्जनविसर्गसंयोगाः परे यस्मात्तत् व्यञ्जनपरं विसर्गपरं संयोगपरमक्षरमिह च्छन्दसि गुरुसंज्ञं ज्ञेयम् । विसर्गपदात् जिह्वामूलीयोपध्मानीयावपि । तदादेशत्वात्तयोः । तच्च गुरु द्विमात्रं प्रस्तारे तु वक्र 5 उकाराकृति स्थाप्यम् । इतरद्गुरोविपरीतं ह्रस्वमबिन्दुकमव्यञ्जनविसर्गसंयोगपरं मात्रिकं प्रस्तारे ऋजु I लघुसंज्ञम् । अत्रापवादमाह वा—पादान्ते वर्तमानमिदमपि लघ्वपि गुरु ज्ञेयम् । वेति व्यवस्थितविभाषा। तेन समानिकादौ पादान्ते यो लघुर्विहितः स न गुरुः । वंशस्थकादौ च पादान्ते लघोर्न गुरुत्वं यदाह
वंशस्थकादिचरणान्तनिवेशितस्य
गत्वं लघोर्नहि तथा श्रुतिशर्मदायि ।