________________
सवृत्तिके कविदर्पण
प्रथमोदेशः।
N. B. Portions included within rectangular brackets are added by the editor.
[पणमिअ अरिहंतगुरुं वोच्छामि अणुग्गहात्थमबुहाणं । इह पाइअभासाए छंदं तु तिहा जहासत्थं ॥१॥
प्रणम्याईन्तं गुरुं वक्ष्येऽनुग्रहार्थमबुधानाम् ।
इह प्राकृतभाषया छन्दस्त्रिविधं यथाशास्त्रम् ॥१॥] —सीति चेन्न । यतः सर्वमेवार्हदुपझं जगति शास्त्रं यदाह
सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः ।
तवैव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविग्रुषः ॥१॥ गुरुस्त्विष्टो विद्याधर्माद्याचार्योऽधिकृतस्तु जयदेवादिः । किं वक्ष्ये चन्दनाह्लादनाच्छन्दः पद्यम् । जातावेकवचनम् । तद्विधा । वैदिकं लौकिकं च । तत्र काव्यानुपयोगित्वाद्वैदिकमुपेक्ष्य लौकिकमादृतम् । तत्तु तिहत्ति त्रिधा । मात्रावर्णोभयभेदात् । मात्राच्छन्दो वर्णच्छन्द उभयच्छन्द इत्यर्थः । मात्राच्छन्दः कुङ्कमादि । वर्णच्छन्द उक्तादि । उभयच्छन्दो वैतालीयादि । यच्छूरः
शंभुं नत्वा गिरमनु ततः पिङ्गलं नागनाथं
वर्ण्य मात्राप्रभवमुभयं वैदिकं लौकिकं च । शूरो ब्यासान्नवगणगणं लक्षणाभिन्नलक्ष्यं
छन्दश्छन्दोनिपुणहृदयानन्ददायि ब्रवीति ॥१॥ किं स्वबुद्धया । नेत्याह । यथाशास्त्रं प्राच्यच्छन्दोनुसारात् । यद्येवं प्राच्यैरेव पर्याप्तं किमनेन प्रयासेनेत्याह । अनुग्रहार्थमुपकारहेतोरबुधानां स्त्रीबालबालिशानामत एव सर्वोपकारिप्राकृतभाषया प्रसिद्धोपयोगिकतिपयच्छन्दोरूपसारोद्धारोयम् । मात्राच्छन्दसि च सुखप्रतिपत्त्यर्थं गाथाच्छन्दसा सोदाहरणं लक्षणमुक्तमितरयोस्तु लाघवार्थ लक्ष्यलक्षणाभ्यामुपन्यास इति ॥१॥ तत्र मात्रागणानाह
नेया मत्ताच्छंदे दुतिचउपंचछकला गणा पंच। दुतिपंचअट्ठतेरसभेइल्ला कचटतपनामा ॥२॥ [ज्ञेया मात्राच्छन्दसि द्वित्रिचतुःपञ्चषट्कला गणाः पञ्च । द्वित्रिपश्चाष्टत्रयोदशभेदवन्तः कचटतपनामानः ॥२॥]