________________
षष्ठोदेशः। अह पत्थारो नठु उठ्ठि एगमाइलगकिरिया। संखा तहद्धजोगो छंदंमि छ पच्चया एए ॥ १ ॥ [अथ प्रस्तारो नष्टमुद्दिष्टमेकादिलगक्रिया।
संख्या तथाध्वयोगो छन्दसि षट् प्रत्यया एते ॥ १ ॥] अथानन्तरं प्रस्तीर्यते (इति) प्रस्तारो जातिवृत्तयोर्विस्तरान्यासः। नष्टस्य प्रस्तारभेदेभ्योऽदृष्टस्य जातिवृत्तभेदस्यानयनं नष्टम् । उद्दिष्टस्य कतिथोयं भेदः प्रस्तारेण्विति प्रश्नेनोपन्यस्तस्य जातिवृत्तभेदस्याख्यानमुद्दिष्टम् । सर्वलघूनां सर्वगुरूणामेकादिलघूनामेकादिगुरूणां च जातिवृत्तप्रस्तारभेदानां ज्ञानाय करणमेकादिलघुगुरुक्रिया । जातिवृत्तप्रस्तारे भेदप्रमाणानयनं संख्या। जातिवृत्तप्रस्तारभूमिमानमध्वयोगः । छन्दसि षट् प्रत्ययाः प्रतीतिजननादेते स्युः ॥ १ ॥ तत्र जातिप्रस्तारमाह
विसमाओ लहुयाई समा गुरू ठवहु गुरुअहे य लहू । उवरिव पुरो पच्छा पुत्वविही जाइपत्थारो ॥२॥ [विषमा लघ्वादीः समाः गुरून् स्थापय गुरोरधश्च लघुम् ।
उपरीव पुरः पश्चात् पूर्वविधिर्जातिप्रस्तारः ॥ २ ॥ विषमाश्चेन्मात्रा लघ्वादीः स्थापयत । विष[म]मात्रासु प्रस्तार्यास्यादिभेदे प्राक् लघुः स्थाप्यस्ततः शेषमात्रा गुरुभिः पूर्या इत्यर्थः । यथा पञ्चानां मात्राणां प्राक् ल[घुः त]तो गुरुद्वयम् I S S अथ समा मात्रास्ततो गुरुनेव स्थापयत । सममात्रासु प्रस्तार्यास्यादिभेदे गुरुभिरेव मात्राः [पूर्या] इत्यर्थः । यथा षण्णां मात्राणां गुरुत्रयम् sss । ततः समासु विषमासु च प्राक्कल्पस्थासु य आद्यो गुरुस्तस्याधो लघु स्थाप[यत । ततः परमुपरीव स्थापयत । यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुरित्यर्थः । पश्चात् पृष्ठभागे पूर्वविधिः कार्यो विषमा अवि(ब)शिष्यमाणा लघ्वादिगुरुभिः समास्तु गुरुभिरेव पूर्या इत्यर्थः । यथा IS HIS सर्व x x यावदयं विधिरित्थं जातीनां प्रस्तारो ज्ञेयः ॥ २॥ जातीनां नष्टादींस्त्रीन् प्रक्रियागौरवादुपेक्ष्य संख्यामाह ।
एगच्चिय एगाए दुन्हं दुन्नेव तिन्ह तिन्नेव । अंतोवंतसमासो परं तु मत्ताण परिसंखा ॥ ३ ॥ [एकैवैकाया द्वयोर्दै एव तिसृणां तिस्र एव । भन्तोपान्तसमासः परतस्तु मात्राणां परिसंख्या ॥३॥]
ISS