________________
सवृत्तिकः कविदर्पणः एकस्या मात्रायाः प्रस्तारे एकैव संख्या । द्वयोर्ते एव संख्या । तिसृणां तिस्र एव संख्या । तिसृभ्यः परतश्चतुरादीनां मात्राणामन्त्योपान्त्यसमासः परिसंख्या । अन्त्यस्त्रिक उपान्त्यो द्विकस्तयोर्मेलनं पञ्च चतसृणां संख्या । अन्त्यः पञ्चक उपान्त्यस्त्रिकस्तन्मीलनमष्टौ पञ्चानां संख्या । अन्त्योष्टक उपान्त्यः पश्चकस्तन्मीलनं त्रयोदश षण्णां संख्या । अन्त्यस्त्रयोदशक उपान्त्योष्टकस्तन्मीलनमेकविंशतिः सप्तानां संख्या । एवमुत्तरत्रापि । जात्यध्वयोगस्तु वृत्ताध्वयोगतुल्य एवेति नोक्तः ॥३॥
[इति कविदर्पणे षष्ठोध्यायः । इति कविदर्पणं सवृत्तिकं समाप्तम् । ]