________________
सवृत्तिकः कविदर्पणः
रूपकस्य यस्य कस्यापि च्छन्दसः कलाः संख्यायन्ते ततस्ताभ्यस्तस्यैव रूपकस्य गुरवः पात्यन्ते चेद्वर्णसंख्या । वर्णाश्चेदुज्झ्यन्ते गुरुसंख्या । द्विगुणीकृत्य गुरवोपनीयन्ते चेल्लघुसंख्या स्यात् । यथास्यामेव गाथायां सप्तपञ्चाशन्मात्राभ्यः सप्तदशगुरुव्यपगमे चत्वारिंशद्वर्णाः । वर्णात्यये सप्तदश गुरवः । द्विगुणितैर्गुरुभिश्चतुस्त्रिंशत्संख्यैः पातितैस्त्रयोविंशतिर्लघव इति ॥ ११ ॥
[इति ] कविदर्पणवृत्तौ पञ्चमोद्देशः ।
६६