________________
प० ८५- १०६ ]
सवृत्तिकः कविदर्पणः
कुंचपया भो मो सभना नो नगणजुगलगुरु इसुइसुवसुहिं ॥ ९९ ॥ सा हंसवया जीए दसहिं तयभभजलहिनगणपरगुरुगं ॥ १०० ॥ भोमः सभना नो नयुगलं गुरुः क्रौञ्चपदा । पञ्चभिः पञ्चभिरष्टभिर्यतिः ॥ ९९ ॥ यस्याः तयभभचतुर्नगणपरगुरुकं सा हंसपदा । दशभिर्यतिः ॥ १०० ॥ अभिकृतिः ॥ २५॥
मोमो तो नो नो नो रो सो लहुगुरु वसुपसुवइहिं भुयंगवियंभियं ॥ १०१ ॥ मो ना छच्चिय जहिं नवछछहिं सगणदुगुरुणिहणमववाहं तं ॥ १०२ ॥
मो मस्तो नो नो नो रः सो लघुर्गुरुर्भुजंगविजृम्भितम् । अष्टभिरेकादशभिर्यतिः ॥ १०१ ॥ यत्र मः षडेव नाः सगणद्विगुरु निधनं तदवबाधम् । नवभिः षड्भिः षड्भिर्यतिः ॥ १०२ ॥ उत्कृतिः ॥ २७ ॥ उक्तादिप्रकरणम् ॥
अथ शेषजातिः ।
मालावित्तं सेसजाईइ मो तो तगणनगणजुगलं यत्तिगं संकरेहिं ॥ १०३ ॥
मस्तस्तयुगं नयुगं यत्रिकं मालावि ( वृत्तं शेषजातौ । एकादशभिर्यतिः ॥ १०३ ॥ एवं प्रमोद महोदयनृत्तललितललितलतापिपीलिकाद्या अप्यूह्याः । शेषजातिप्रकरणम् ॥
अथ दण्डकाः ।
५७
छव्वीसक्खर अहियं दीसइ जं किंचि रूवयं छंदे । तं दंडयंति पभणंति सेसजाई विमुत्तूण ॥ १०४॥ [ षड्विंशत्यक्षराधिकं दृश्यते यत्किंचिद्रूपकं छन्दसि । तद्दण्डकमिति प्रभणन्ति शेषजातिं विमुच्य ॥ १०४ ॥ ]
षड्विंशत्यक्षराधिकं शेषजातेरन्यद्यत् किमपि छन्दसि रूपकं दृश्यते तद्दण्डकमित्याहुर्वृद्धाः ।
यथोक्तम्
यत् किंचिद् दृश्यते छन्दः षड्विंशत्यक्षराधिकम् |
शेषजात्यादिकं मुक्त्वा तत्सर्वे दण्डकं विदुः ॥ १०४ ॥
नदुगरगणसत्तयं जत्थ सो दंडओ चंद (ड) वुट्टिप्पयाओ मए वन्निओ ॥ १०५ ॥ द्विकरगणसप्तकं चण्डवृष्टिप्रयातो दण्डको मया भणितः ॥ १०५ ॥
जहकम सर्सिरेहबुडीइ अन्नन्नवव्वालजीमूयलीलायरुद्दामसंखाइया ॥ १०६ ॥ [ यथाक्रमं शशिरेफवृद्ध्या अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादिकाः ॥ १०६॥]
चण्डवृष्टिप्रयातस्योर्ध्वं 'ससिरेह' त्ति एकैकरगणवृद्धया यथाक्रममर्णाद्या दण्डकाः स्युः । तत्र नगणाभ्यां परैरष्टभी रगणैः अर्णः । नवभिरर्णवः दशभिर्व्यालः एकादशभिर्जीमूतः द्वादशभिर्लीलाकरः त्रयोदशभिरुउद्दामः चतुर्दशभिः शङ्खः । आदिशब्दात्पञ्चदशभिः समुद्रः । षोडशभिर्भुजंगः इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरः पादस्तावद्भवन्ति ॥ १०६॥