________________
प. ३७०२-३७.३; टी. प. ९८] सवृत्तिकः कविदर्पणः
[ उच्छलत्षट्पदकलगीतिभङ्गिधरे विस्फुरत्कलकण्ठीकण्ठपञ्चमस्वरे । सज्जमानहिन्दोलालवनप्रसाधिते
चर्चरीपटहोदामशब्दसंक्षोभिते ॥ विकसितरक्ताशोकलते । केसरकुसुमामोदमये ।। प्रफुल्लितमाकन्दवने । घनघूर्णमानदक्षिणपवने ॥ इतीदृशे चैत्रे यस्य न पार्श्वेऽस्ति प्रियमनुष्यः । स कथं जीवति सखि विद्धो मकरध्वजस्य बाणैः ।। ९८ ॥
एते च द्विभङ्गीत्रिभङ्ग्यौ शीर्षकाख्ये । द्वादशपदीप्रकरणम् ॥ ३७.२ ॥
अथ षोडशपदी । पद्धडिकादिछन्दांसि चत्वारि चत्वारि कडवकम् । आदिशब्दाद्वदनादिपरिग्रहः । तेषां च कडवकानां गणः संधिसंज्ञः । . उदा०-पुरुगुजरमंडली(लि) अइसमिद्ध । अणहिल्लनयरु णामिहि पसिद्ध ।
तहि सिरिचाउक्कडवंसजाय । वणरायपमुह हुय बहुय राय ॥ अह कालकमिण रणरंगमल्लु । रिउरायचक्कहियइक्कसल्लु । चालुक्कवंसपंकयमरालु । तत्थासि नराहिवु कुमरवालु॥ . बहुदिहिण बहुपरिकरिसमग्गु । तिणि सम्मु परिक्खिउ धम्ममग्गु । जिणसासणु बहुगुणु भणि पवत्तु । न विवेयलक्खि तुल्लइ सयत्तु ॥ नहलग्गसिहरजिणहरणिवेस । मणहर असेस तिणि विहिय देस । तसु सरिसु नरेसरु मणुयलोइ । न हु हुवउ न होसइ नत्थि कोइ ॥ ३७.३॥
.
कडवं ।
[पुरुगुर्जरमण्डले अतिसमृद्धं । नगरमणहिल्लनाम्ना प्रसिद्धम् । तत्र श्रीचापोत्कटवंशजाताः । वनराजप्रमुखा जाता बहवो नृपाः ॥ . अथ कालक्रमेण रणरङ्गमलः । रिपुराजचक्रहृदयैकशल्यम् ॥ चालुक्यवंशपङ्कजमराल: । तत्रासीन्नराधिपः कुमारपाल: ॥ बहुदिवसैर्बहुपरिकरसमग्रः । तेन सम्यक्परीक्षितो धर्ममार्गः ॥ जिनशासनं बहुगुणं भणित्वा प्रवृत्तः । न विवेकलक्ष्ये तोल्यते सयत्नः ॥ नभोलग्नशिखरजिनगृहनिवेशः । मनोहरोऽशेषस्तेन विहितो देशः ॥
तस्य सदृशो नरेश्वरो मनुजलोके । न खलु भूतो न भविष्यति नास्ति कोपि ॥ ३७.३॥] स्पष्टम् । सन्ध्युदाहरणं प्रतीतम् । षोडशपदीप्रकरणम् ॥ ३७॥
[इति] कविदर्पणवृत्तौ द्वितीयोद्देशः ।