________________
तृतीयोद्देशः।
अथ वर्णच्छन्दः।
इत्तो वुच्छं सव्वंपि लाहवत्थं सलक्खलक्खणयम् । वनच्छंदे वित्तं आहिकिज्जइ, तं पुणो तिविहम् ॥ १॥ [इतो वक्ष्ये सर्वमपि लाघवार्थ सलक्ष्यलक्षणकम् ।
वर्णच्छन्दे वृत्तमधिक्रियते तत्पुनस्त्रिविधम् ॥ १ ॥] इतो मात्राच्छन्दसोनन्तरं सर्वमपि वर्णच्छन्द उभयच्छन्दश्च सलक्ष्यलक्षणकं वक्ष्ये । तदेवोदाहरणं तदेव सूत्रमित्यर्थः । लक्षणकमित्यल्पार्थे कः । किमर्थं रीतिभङ्ग इत्याह-लाघवार्थम् । भिन्नलक्षणत्वे हि ग्रन्थगौरवं स्यात् । मात्राच्छन्दस्तु लक्ष्यैः सुज्ञेयमिति तथोक्तम् । इदं चादौ प्रपञ्चितमेव । तथा वर्णच्छन्दसि वृत्तमधिक्रियते । इतो यद्वक्ष्यते तद्वृत्ताख्यमित्यर्थः । तच्च स्थिरगुरुलध्वक्षरविन्यासमिष्यते पाटनसंयोगयोरभावात् । मात्राछन्दस्तु जात्याख्यम् ।
यदाह‘पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा' इति । तत्पुनर्वृत्तं त्रिविधम् ॥ १ ॥ तथाहि
सममद्धसमं विसमं तत्थ समं ताव तुल्लचउपायम् ॥ तुल्लद्धं अद्धसमं; अतुल्लसवप्पयं विसमम् ॥ २॥ [सममर्धसमं विषमं तत्र समं तावत्तुल्यचतुष्पादम् ।
तुल्यार्धमर्धसमं, अतुल्यसर्वपादं विषमम् ॥ २ ॥] समवृत्तमर्धसमवृत्तं विषमवृत्तम् । तत्र त्रिके तावत्तुल्यलक्षणैश्चतुर्भिः पादैः समवृत्तम् । तुल्यलक्षणाभ्यामर्धाभ्यामर्धसमवृत्तम् । विसदृशैः सर्वैः पादैर्विषमवृत्तम् ॥ २॥
तेसु समे एगक्खरमुहछब्बीसक्खरंतचउपाई। छन्वीस हुंति जाई; तो सेसं दंडया तत्तो ॥ ३ ॥ [तेषु समे एकाक्षरमुखषड्विंशत्यक्षरान्तचतुष्पाद्यः ।
षड्विंशतिर्भवन्ति जातयस्ततः शेषं, दण्डकास्तस्मात् ॥ ३ ॥] तेषु त्रिषु समवृत्ते चतुर्णां पादानां समाहारश्चतुष्पादी । एकाक्षरादिः षड्विंशत्यक्षरान्ता चतुष्पादी यासु ताः षड्विशतिर्जातयः स्युः। ' तो सेसं' ति शेष जातिस्ततो दण्डकजातिः ॥३॥
उत्त अइउत्त मज्झा पइट्ट सुपइट्ट तह य गाइत्ती । उण्हिग अणुहुभ विहई पंती तिहुउ जगइअइजगई ॥ ४ ॥