________________
१० ३५-३५.३; टी०प० ९७] सवृत्तिकः कविदर्पणः
मां त्यक्त्वा मा यासीस्त्वं । कान्त वसन्तप्रवेशे ।
चूतो न बाहुभिरास्तीर्णो । विरहिणीमारणार्थम् ? ॥ विरहिणीमारणार्थ मञ्जरीसन्नाह सुदृढं कृत्वा :
किं न बाहुभिरास्तीर्णश्चतोऽविरलदलभरेण?। कान्त वसन्तप्रवेशे विरहदुःखमोहे क्षिप्त्वा
अहह मा याहि अनाथदीनदुर्मतिं मां त्यक्त्वा ॥ ३५२ ॥] 'गुंदि 'त्ति मंजिरी। 'घंघलि 'त्ति शीघ्रादौ झगटकस्य घंघलः । अत्राम्नायः । दोहकपदानि प्रतिलोमं वस्तुवदनकपदेष्वावर्तनीयानि ॥ ३५.२॥ उदा०-घरि घरि घेणुदोहदहिमंथविलोडणघोसु घुम्मए
वंखणवेयपढणधुणि बंदीण जयजयसढु सुम्मए। तक्खणि मुत्तु कहवि निदालसु कामुयजणुवि वुज्झए
धारणिबंधि जित्थु नारियणि अविरलु सलिलु वुज्जए॥ सा बहलकमलपरिमलमिलंतरोलंबरोलरमणीया । मंगलनिवहावंझा दिणमुहसंझा नरिंद तुह होउ ॥ ३५.३ ॥ [गृहेगृहे धेनुदोहदधिमन्थविलोडणघोषो घूर्णते
व्याख्यानवेदपठणध्वनिर्बन्दीनां जयजयशब्दः श्रूयते । तत्क्षणे मुक्तः कथमपि निद्रालस: कामुकजनोपि बोध्यते
धारणिबन्धे यत्र नारीजनेनाविरलं सलिलमुह्यते ॥ सा बहलकमलपरिमलमिलद्रोलम्बरवरमणीया ।
मङ्गलनिवहावन्ध्या दिनमुखसंध्या नरेन्द्र तवास्तु ॥ ३५.३ ॥] 'रोलम्बरोलु'त्ति भ्रमररवः । तथा चेति चकारादन्यैरपि छन्दोभिर्द्वन्द्वितैर्द्विभनी स्यात् । यथा गाथाया भद्रिकायोगे
केलिक्खंभा ऊरू नाही वावी मुणालिया बाहा । नयणाई कुवलयाई दसणा उण कुंदकलियाओ ॥ छणससिमंडलमाणणं पाणीपाया य तुज्झ पउमाई । सिसिरोवयारमइयासि किं तहवि दिवाणिसं दहेसि दइए ॥ ९७ ॥
[कदलीस्तम्भावूरू; नाभिर्वापी; मृणालिके बाहू । नयने कुवलये; दशनाः पुनः कुन्दकलिकाः ॥ क्षणशशिमण्डलमाननं पाणी पादौ च तव पद्मानि । शिशिरोपचारमय्यसि किं तथापि दिवानिशं दहसि दयिते ॥ ९७ ॥]
अष्टपदीप्रकरणम् ॥ ३५.३ ॥
अथ नवपदी । दोहकादियुता मात्राजांतिर्वस्तुसंज्ञा । रऽत्यन्ये । आदिशब्दादवदोहकोपदोहकपरिग्रहः