________________
५.३२; टी. प. ७५–८४]
सवृत्तिकः कविदर्पणः
पपका टदुगं पपटा कमेण मुहणिहणदलपयतिगेसु । कित्तिधवलं दलजुगे पढमतइज्जाण अणुपासो ॥ ३२ ॥
यदाह
[ पपकाष्टदुगं पपटाः क्रमेण मुखनिधनदलपदत्रिकेषु । कीर्तिधवलं दलयुगे प्रथमतृतीययोरनुप्रासः ॥ ३२ ॥ ]
धवलव्याजाद्येन च्छन्दसा पुमान् वर्ण्यते तद्धवलम् । तच्च त्रिधा । अष्टपात् षट्पाच्चतुष्पात् ।
धवलमिहेण सुपुरिसा वन्निज्जइ जेण तेण सो धवलो ।
वलोव होइ तिविहो अट्ठपउ च्छप्पड च्चउप्पाओ ॥ ८१ ॥
[ धवलमिषेण सुपुरुषो वर्ण्यते येन तेन स धवलः ।
धवलोपि भवति त्रिविधः अष्टपाद् षट्पाद् चतुष्पाद् ॥ ८१ ॥ ]
तत्राष्टपदश्रीधवलमष्टपद्यां वक्ष्यति । षट्पदस्तु अयं यथा । क्रमान्मुखदले प्रथमेंहौ द्वौ षण्मात्रावेको द्विमात्रो द्वितीयांहौ तु द्वौ चतुर्मात्रौ तृतीये तु द्वौ षण्मात्रावेकश्चतुर्मात्रः । एवं द्वितीयदलांह्रित्रयेपि यस्य तत्कीर्तिधवलं छन्दः । दलद्वयेप्यस्य प्रत्येकं आद्यतृतीयपादयोरनुप्रासः ॥ उदा० – देसणगुणगव्विहिं गज्जउ । मञ्चउ नाणिहिं । पवलवायभडवाइहिं भज्जउ ।
परिकित्तिधवलियसयलधर । जसघोससूरि ।
तुह समवड ण लहहि किंचि गणधर ॥ ३२.१ ॥ [ देशनागुणगर्वेण गर्जित: । मत्तो ज्ञानेन ।
प्रबलवाग्भटवादिभिर्भक्तः ॥
परिकीर्तिधवलितसकलधरो । यशोघोषसूरे ।
३७
त्वत्समो न लभ्यते कोपि गणधरः || ३२.१ ॥]
' समवड 'त्ति समतुलांवडशब्दाः संमितार्थाः । चतुष्पदश्च गुणधवलादिः । स च महाप्रन्थेभ्यो ज्ञेयः । धवलोपलक्षणान्मङ्गलार्थ संबद्धं छन्दो मङ्गलम् । यदाहु:--
उत्साहहेलावदनाडिलाद्यैर्यद्गीयते मङ्गलवाचि किंचित् ।
तद्रूपकाणामभिधानपूर्व छन्दोविदो मङ्गलमानमन्ति ॥ ८२ ॥ तथा - तैरेव धवलव्याजात्पुरुषः स्तूयते यदा ।
तद्वदेव तदानेको धवलोप्यभिधीयते ॥ ८३ ॥
1
कोर्थः । येनैवोत्साहादिना मङ्गलधवलभाषागाने कृते तन्नामाद्ये मङ्गलधवले । तथाहि । उत्साहमङ्गलम् । हेलामङ्गलम् । वदनमङ्गलम् । अडिलामङ्गलम् || आदिशब्दात् रासावलयमङ्गलं दोहकमङ्गलादि च ज्ञेयम् । एवं उत्साहधत्रलाद्यपि वाच्यम् । किंच येनैवोत्साहादिना देवो गीयते तत्फुल्लडकम् । तथा चतुर्मात्रात्रिमेको द्विमात्रो यत्रांहिचतुष्टये यस्य कस्यचिद्गाने झम्टकम् । यच्छन्दः कन्दली
उच्छाइवयण हेलादोहयपमुहे हिं गिज्जए पुरिसो । जेहिंचिय धवलमिसेण तन्नाममुच्चए भवलं ॥ ८४ ॥