________________
तृतीयो गुम्फः यथा-विलासिनीविलासिनं तडिदुकूलभासिनम्।
__ समोद-रासलासिनं भजे निकुञ्जवासिनम् ।। ७६ ।। माणवकक्रीडा
भं गपरं द्विः प्रणयेदित्युदितं यस्य पदम् ।
माणवकक्रीडमिति ज्ञयमहो वृत्तमदः ।। ८० ।। यथा-भक्तमनस्तापहरं रूपसुधावारिधरम् ।
चारुतडिज्जैत्रपट नौमितरं दिव्यनटम् ॥ ८१॥ अथ मल्लिका
वक्र शुद्ध सुक्रमोण दीव्यदष्टवर्णशालि ।
उत्क्रमात्प्रमाणिकैव मल्लिकाख्यवृत्तमस्ति ।। ८२ ॥ यथा-रासलासमुक्ततन्द्र केलिसिन्धुपूर्णचन्द्र ।
भक्तपक्षबद्ध कक्ष कृष्ण कृष्ण रक्ष रक्ष ॥ २३ ॥ तुङ्गच्छन्दः
नगणयुगलयुक्तं यदि गुरुयुगमुक्तम् ।
तदिह भवति तुङ्गं रुचिरवरणसङ्गम् ॥ ८४ ॥ यथा-हरिसहकृतरासा कलितललितलासा।।
दलितविरहबाधा जयति जयति राधा ।। ८५ ।। कमलवृत्तम्
कलय लघुपञ्चकं रगणसमुदञ्चकम् ।
कमलमिति वृत्तकं भवति हृतचित्तकम् ।। ८६ ॥ यथा-सकलसुखसाधिका विरहरयबाधिका।
अखिलभुवनाधिका जयति हृदि राधिका ।। ८७ ।। यथा वा
व्रजभुवि विहारिणं मधुमणिहारिणम् ।
हृदयसुखकारिणं भजत गिरिधारिणम् ॥ ८ ॥ अथ श्लोकलक्षणम्
षष्ठं स्याद् गुरु सर्वत्र लघु पञ्चममक्षरम् । समयोः सप्तमं श्लोके ज्ञयं विषमयोर्गुरुः ।। ८६ ।।