________________
४० ]
श्रथ मनोहरच्छन्द:
जयुग्मल लाम पदं कलयाम । मनोहरनाम तदस्य वदाम ।। ६५ ।।
श्रथ दमनकच्छन्दः
नयुगलमनु मतिमभितनु । दमनकमिति कथय झगिति ।। ६६ ।। यथा--सुजनशरण सुखदचरण । पशुपतनय शमिह जनय ।। ६७ ।। श्रथ समानिका
रोत्तरं जमुच्चरेः प्रान्ततो गमुद्धरेः ।
सप्तवर्णंगा कवे सा समानिका भवे ॥ ६८ ॥ यथा-- ही रहारहारिणं पीतचीरधारिणम् ।
केलिकुञ्जचारिणं नौमि भव्यकारिणम् ॥ ६६ ॥
श्रथ सुवासच्छन्द:
वृत्तमुक्तावल्याम्
सलघुचतुष्टयभगणमिहानय । कथय सुवासकमिति तदुपासक ॥७०॥ यथा--मनसिजसायकनयनसहायक । नवनटनायक जय सुखदायक ॥७१॥
श्रथ करहंसच्छन्दः
निगमलघुवाम जगणकृतधाम । कथय करहंसमतुलमतिशंस ॥ ७२ ॥ यथा-- परमशुभधाम हृदयमणिदाम । गिरिधरणनाम शरणमुपयाम ॥७३॥ श्रथ मुक्तागुम्फच्छन्दः
वक्राः सप्ताऽऽधातव्याः पादे पादे दातव्याः । मुक्तागुम्फाख्यं वृत्तं जानीतेदं सद्वृत्तम् ॥ ७४ ॥ यथा--विद्वच्चेतोविश्रामं प्रावृट्पाथोदश्यामम् ।
नाऽवैद्वेदो यं कामं वन्दे तं देवं रामम् ।। ७५ ।। विद्युन्माला
यस्यामष्टी वक्रा युक्ताः पादे स्युः सुप्रज्ञैरुक्ता: । सा विज्ञेया विद्युन्माला चेतोहर्त्री यद्वद्बाला ।। ७६ ॥ यथा -- या शोभापीयूषाऽगाधा चेतोबाधाहर्त्री राधा ।
कल्याणौघं सा मे दत्तादन्तः सत्ता प्रेमाऽकृष्टा ।। ७७ ।। प्रमाणिका
लघुर्गुरुर्निरन्तरं यथाक्रमं निधीयताम् । तदा प्रमाणिकाभिधं सुवृत्तमष्टवर्णकम् ॥ ७८ ॥