________________
पद्यानि ३३-३७ ]
सटीको वृत्तजातिसमुच्चयः
यदि ब्राह्मणि त्रयाणां चतुर्थ ददासि त्वं कुञ्जराणां दा (सा) मन्तम् । भाषया ततो ब्रूहि मारेव्येमां गाथां ढोषामिति ॥ ३५ ॥
हे ब्राह्मणि त्रयाणां कुञ्जराणामनन्तरं यदि सामन्तं राजानं ददासि ततस्तां गाथां माख्या भाषयोपलक्षितां दोषामिति भण ३५॥
अस्य एव विशेषान्तरार्थं द्वितीयां गाथामाह - अहं तिहु इति ।
अह तिहु चउत्थणोदि कहवि सो कुंजराहु सोमंदु | तो देहि चउत्थओ माहा (ह) णोवि ढोसाहु उ दोसु ॥ ३६ ॥ अवब्भंसगाहाजुअलएण ढोसोहि णाम ।
अत्र (थ) त्रयाणां चतुर्थो न भवति कथमप्यसौ कुञ्जराणां सामन्तः । ततो देहि चतुर्थ ब्राह्मणमपि ढोषाया नैव दोषः ॥ ३६ ॥
४७
.
त्रयाणां कुञ्जराणामनन्तरं कथमपि कदाचिदपि यदि न सामन्तो भवति ततो ब्राह्मणमपि देहि । अस्मिन्दत्ते ढोषाणां नैव दोषो भवति । कुञ्जरश्चतुर्मात्रः । एतदुक्तं भवति । यदि मारव्या भाषया गाथा उच्चार्यते चतुर्थे चास्या यदि मध्यगुरुः सर्वलघुर्वा भवति नियमेनैव ततो ढोषाख्यां लभते । मारवी च भाषा उदाहरण एवं दर्शिता । मरौ भवा मारवी । मारुवेत्यन्यः पठति ॥ ३६॥
1
वित्थारिअ इति ।
वित्थारिअआणुमएण कुण दुवईछंदोणुमएव्व मुणे । इअ रासअ सुअणु मनोहरए वेरिअसक्तत्थक्खरए ॥ ३७ ॥
रासअलक्खणे अणिदिट्ठवत्थुअं मत्ताम ( ग ) णसमम् ।
विस्तारितकानुमतेन कुरु द्विपदीछन्दोनुमतेन वा पुनः । इति रासकं सुतनु मनोहरं विदारीसमाप्ताक्षरम् ॥ ३७ ॥
विस्तारितकलक्षणमुक्तम् । तदनुमतेन वा रासकं कुर (रु) । अथवा द्विपदी वस्तुकेसीत्यन्तरै (?)विधेहि । किंभूतं रासकम् । विचार्यामुक्तलक्षणायां समस्तान्यक्षराणि अभिधेयवर्णानि यस्य । एतदुक्तं भवति । येन केनचिद् द्विपदीरूपकेन द्विपद्यनुकारिणा वा गीतिकामित्रैर्विचार्यान्तैर्वा रूपकै रासको भवति ॥ ३७ ॥
अपरमपि प्रसिद्धं रासकमाह - अडिलाहिं इति ।
१ माराध्यया A; मागध्या B. २ उपलक्षितौ भोषामिति AB. ३ आधा AB. ४ अत तिण्णेति AB. ५ सामंतादु AB. ६ णउ Com. A seems to read उ; Breads कओ. ७ भोषणो A; भोषाणां B. ८ माराध्यया A; मागध्या B. ९पुण Com. १० Com. seems to read संमत्तक्खरए. ११ वा कुरु AB. १२ रसं सुतनु० AB. १३ रूपनासको A; रूपनाकसको B.