________________
४२
सटीको वृत्तजातिसमुच्चयः
चामरअं कडअं च वरोरु विरामे दूरसमुज्जलअम्मि तरंगअपाए ॥ २२ ॥
हाररसयोखिके नताङ्गिवितीर्णे देहि' सनूपुररूपयुगं च पौरस्त्यम् । चामरं कटकं च वरोरु विरामे दूरसमुज्ज्वले तरङ्गकपादे ॥ २२ ॥
भवति इति ।
हारश्च रसश्च हाररसौ तयोत्रिके वितीर्णे दत्ते त्रिः कृत्वः चरणे स्थापित इत्यर्थः । पश्चात्सनूपुररूपयुगं च पौरस्त्यं पुरोभवं देहि चरणमेव । विरामेन्ते च चामरकटके गुरुद्वयमित्यर्थः । वरौ ऊरू यस्याः । आमन्त्रणम् ॥ २२ ॥
[चतुर्थो नियमः
भवति मुद्गरो हरिर्योधस्तस्याग्रतो मौक्तिकं प्रिये ।
जातु सा (श) म्यायाश्चतुर्भागं मात्राधिकं विद्धि पार्थिवे ॥ २३ ॥
शम्यायाः पाद एवंविधो भवतीति विद्धि जानीहि यस्य प्रथमं मुद्गरः पञ्चमात्रो भवति पश्चाद्धैरिरश्वस्तदनु योधः । तस्य च योधस्य अग्रतः पुरो मौक्तिकं गुरु किं च पार्थिव (वे) मध्यगुरौ सतु (ति) जातु कदाचित्तं चतुर्भागं मात्रयैकयौधिकं विद्धि । पार्थिवस्थाने कदाचित्पञ्चमात्रो विधेय इत्यर्थः । अनेन वचनेनोदाहरणेन चेदं दर्शितमाचार्येण यथा सामान्यसंज्ञयापि मध्यगुरुरस्मिन् ग्रहीतव्यमि(इ)ति । अपरमपि अनेनोदाहरणेन दर्शितं यत् संस्कृतेनैतच्छम्यं वृत्तं, न बध्यते भाषान्तरेणेति ॥ २३ ॥
मिट्ठाण इति ।
विसमट्ठाणाविरुद्धस्तनतइ अदिअणरिंदेंआ
गिट्टिा कउ (इ) वरेहिं रविओ (ते) रहवी सामआ । ठवेसु अहिअक्खराइ छँटुणिरूविअबाणआ
अंसावि हु सेसआ गअतुरअएहिं णिबद्धआ ॥ २४ ॥
विषमस्थानाविरुद्धतनतृतीय द्विजनरेन्द्राः निर्दिष्टाः कविवरैः रवित्रयोदशविश्रमाः । स्थापयाधिकाक्षराया विरामनिरूपितबाणाः अंशकी अपि शेषीं गजतुरगैर्निबद्धाः ॥ २४ ॥
अधिकाक्षराया एवंभूता ये अंशका निर्दिष्टास्तान्स्थापय । विष [म] स्थानेष्वविरुद्धो मध्यगुरुर्येषाम् । अन्यच्च रविभिर्द्वादशभिस्तथा त्रयोदशभिर्यतिः पदसमाप्तिर्येषामिति षष्ठे च निरूपितो बाणो येषां ते तथा । अन्यच्च तृतीयषष्ठाभ्यां शेषा ये ते गजतुरगैः सामान्येन चतुर्मात्रैर्निबद्धाः कार्याः ॥ २४ ॥ पढम इति ।
१ विस्तीर्णे देहे AB. २ चतुर्थभाग AB ३ सय्यायाः पादधूपंविधो AB. ४ द्धरेस्वर: AB. ५ योधेकं AB. ६ चंद्रदर्शित ० AB. ७ छट्ठविरमणिरू० AB. In trans. Com. reads विरमणिरू० but explains the reading छुट्टणिरू० ८ ज्ञान AB. ९ वरैरंधेत्रयोदिसविस्रामा AB. १० अंसकविशेषा AB. ११ तांसद्विपय AB. १२ षष्ठाद्या : AB.