SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पद्यानि १-८] सटीको वृत्तजातिसमुच्चयः गयणअलविसअपसरिअमणहरससिकिरणणिअरहिअतिमिरं । अणुहवसु सुहअ बहुमअ सललिअअणरेसिअ रअरअणिं ॥ ४ ॥ हंसवधूः । गगनतलविषयप्रसृतमनोहरशशिकिरणनिकरहततिमिराम् । अनुभव सुभग बहुमत सललित बहुरसिक रतरजनीम् ॥ ४ ॥ कस्यचिन्नायकस्य कुपितप्रसन्नायां नायिकायामुपालम्भगर्भं वयस्यावचनम् । हे सुभग इमां रतोपलक्षितां रजनीमनुभव । अस्यां रजन्यां सुखेन विहरेत्यर्थः । किंभूतां रजनीम् । गगनतलविषये भोभागोदरे प्रसृत उद्गतो योऽसौ मनोहरः शशी तदीयेन किरणनिकरेण रश्मिसमूहेन हतं तिमिरं यस्यां तामेवंविधाम् । हे बहुमत अनेर्केचिन्तित । सलैलित सविलास । बहुरसिक अस्थिरप्रकृते । त्रीण्येतान्यामन्त्रणपदानि । एतज्जातिषड्विंशकस्योपलक्षणं गाथायुगलकम् ॥ ४ ॥ यथा चैताः षड्विंशतिर्भवन्ति तथा दर्शयन्नाह - साअर इति । पर्थांरसाअरवरे रयणे लुत्ते रसम्मि वड्ढते । जाह कमेण कंते छव्वीसं होति गाहाओ ॥ ५ ॥ सागरप्रस्तारवरे रत्ने लुप्ते रसे वर्धमाने । जानीहि क्रमेण छन्दसि षड्विंशतिर्भवन्ति गाथाः ॥ ५ ॥ ३७ सागरश्चासौ प्रस्तारः सागरप्रस्तारः ( तस्मिन्) लक्ष्मीं स्थापयित्वा ततः प्रथमगुर्वक्षरे स्थान्यादेशभावेन रसेन लुप्ते करे सत्येकत्रिंशदक्षरा भवति द्वितीया । अनन्तरं द्वितीये रत्ने रसेन लघुद्वयेन लुप्ते सति च कृतौ (?) द्वात्रिंशदक्षरा भवति ॥ ५ ॥ लच्छी ऋद्धि(द्धी) बुद्धी लज्जा विज्जूं अ मालई दीही । गोरी राई जोन्हा छाआ कंती महामई कित्ती ॥ ६ ॥ मुखा मणोहरी रोहिणी विसाला सुहा सिवा हरिणी । चक्काई सारसिआ कुररी हंसी अ हंसवहुअत्ति ॥ ७ ॥ दोहिं गीईहिं गाहाणामाई भणिआई ॥ [लक्ष्मी] ऋद्धिर्बुद्धिर्लज्जा विद्या क्षमा च दीर्घा च । गौरी राजिज्र्ज्योत्स्ना छाया कान्तिर्महामतिष्कीर्तिः ॥ ६ ॥ मुग्धा मनोहरा रोहिणी विशाला सुधा [शिवा] हरिणी । चक्रवाकी सारसिका कुररी हंसी च हंसवधूरिति ॥ ७ ॥ पूर्वोक्तस्यैव रत्ने लुप्ते रसे च वर्धमान इत्येतस्य प्रकारान्तरमाह- - कण्णकर इति । कण्णकरचलणविप्पंसएहिं पढमट्ठिएहिं जाणिहिह । जहसंखं भ(स)व्वाणं जाईणं वण्णपरिवाडिं ॥ ८ ॥ १ हअ Com. २ सललिअ बहुरसिअ Com. ३ णभोगोदरे. ४ अनेकचिन्त AB. ५ सलिल AB. ६ साअरपत्थारवरे Com. ७ छंदे Com. ८ Both A and B add सागरप्रस्तारश्चासौ सागरप्रस्तारः ९ विज्जा खमा अ दीही अ Com. १० मणोहरमा AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy