________________
चतुर्थो नियमः ।
इदानीमवसरप्राप्तां गाथामाह — अट्ठमअं इति ।
अट्टम सोलहमं च कुण मणी गंधअं चउद्दहमं । छ गाहाइ थ दिअं व परिसेसजोहाइ ॥ १ ॥
अष्टमं षोडशं च कुरु मणि गेन्धं च चतुर्दशम्
षष्ठं गाथायाः स्तनं द्विजं वा परिशेषयोधायाः ॥ १ ॥
गाथाया अर्धयोप (हि) साकल्येन षोडश स्थानानि भवन्ति । तत्राष्टमं षोडशं गुरुं कुरु गन्धं लधुं च चतुर्दशं षष्ठं च स्तनं मध्यगुरुं द्विजं लघुचतुष्टयं वा । किंभूतायाः । परिशेषाः अष्टमषोडशचतुर्दशषष्ठेभ्यो निखिला योध यस्याः सा । तथा तस्या अत्र च ' गाहाखंध' (१.२३) इत्यादिना समविषमयोर्मध्यगुर्वो (रो) र्विधिप्रतिषेधौ । उदाहरणम् ।....॥ १ ॥
अस्या एवेति भेदप्रदर्शनार्थमाह – गाहा इति ।
गाहापत्थार महोर्वहिस्स तीसक्खरा समारंभे |
जाणह पंचावण्णक्खराई तस्सेअ विरमम्मि ॥ २ ॥ गाथाप्रस्तार महोदधेस्त्रिंशदक्षरां समारम्भे ।
जानीहि पञ्चपञ्चाशदक्षरां च तस्यैव विरामे ॥ २ ॥
महोदधेभिन्नम (?) प्रस्तारः षष्ठे नियमे उक्तः तस्य समारम्भे त्रिंशदक्षरां गाथां जानीहि । विरामेऽन्ते चास्य पञ्चपञ्चाशदक्षरामिति । अनेन प्रकारेण गाथाया जातय उच्यन्ते यथा मनुष्यत्वस्य ब्राह्मणाद्याः । न केवलमिह यावत्सर्वत्रैव मात्रावृत्ते जातिमात्रस्य लक्षणमुच्यते । एतच्च षष्ठ एव प्रतिपादयिष्यामः ॥ २ ॥
अस्य चाद्यन्तवर्तिनो गाथाद्वयस्य स्वरूपमाह — सत्तावीसं इति ।
सत्तावीस हारा जीसे दीसंति तिण्णि गंधाई । सा गाहाणं गाहा आई तीसक्खंरा लच्छी ॥ ३ ॥ सप्तविंशतिरा यस्याः दृश्यन्ते त्रीणि गन्धानि ।
[गाथानां ] गाथा आद्या त्रिंशदक्षरा लक्ष्मीः ॥ ३ ॥
सा गाथा लक्ष्मीर्नाम सर्वासां गाथानां प्रथमा । किंभूता । यस्या हारा गुरवः सप्तविंशतिर्भवन्ति द्वयोरप्यर्धयोर्लघूनि त्रीणि । षष्ठे स्थाने स्तने लघुद्वयस्य संभवाच्चतुर्दशे चैकस्येति ॥ ३ ॥
द्वितीयासौ पञ्चपञ्चाशदक्षरा तस्या इदानीं लक्ष्यद्वारेण स्वरूपमाह – गगणअल इति ।
१ गन्धीं AB. २ गन्धे AB. ३ मष्टेभ्यो AB. ४ यथा AB. ५ As in Chapter III, I drop even here the formulaic representation as it is very unreliable. ६ वश्रुति ७ सत्तावीसं Com. ८ गणनां AB.