________________
पद्यानि ६-१४]
सटीको वृत्तजातिसमुच्चयः ध्रुवकान्ते वस्तुकान्ते गीतिका नाभिमता आचार्याणाम् । भुजगाधिपौ कम्बलाश्वतरौ । सातवाहनो राजा । वृद्धकविर्हरिवृद्ध इति केचित् । बहूनामुपादानं विकल्पनिवृत्यर्थम् । विदार्यादीनि तावदवश्यंतथा (नावश्यतया ?) क्रियन्ते किं तर्हि बन्धवशाद्वस्तुवशाच्चेति निर्णीतम् ॥ ८॥ भुअआहिव इति।
भुअआहिवसालाहणवुड्ढकइनिरूविआण दुवईण। णामाई जाई साहेमि तुज्झ ताई विअ कमेण ॥९॥ भुजगाधिपसातवाहण(न)वृद्धकविनिरूपितानां द्विपदीनाम् ।
नामानि यानि साधयामि तव तान्येव क्रमेण ॥९॥ भुजगाधिपादिनिरूपितानामित्यनेनैतदर्शयति या विषमद्विपद्यः इदानींतनैः कथिस्तातोसां लक्षणं नेहोच्यते । साधयामि कथयामि ।. तान्याह-सुमना इति ।
सुमणा तारा जोण्हा मणोवई कोमुई पगीआ अ। रत्ता अ माणिणी अच्छरा अ तह पउमिणी विज्जू ॥१०॥ विणया सरस्सई सुप्पहा विहूई सुमंगला चंदा। विअआ महामई णंदिणी सिरी चंदकंता अ॥ ११ ॥ हंसी पच्छा रइआ सुम्मा सामा विलासिणी लच्छी। मेहा अस्सवंता सुसंगआ मालई दूई ॥१२॥ वणराई वंसत्था ससिवअणा रअणमाला अ। सत्तैत्तीसा एआ जाणह मत्तागणसमाओ ॥ १३ ॥ सुमनास्तारा ज्योत्स्ना मनोवती कौमुदी प्रगीता च । रक्ता च मानिन्यप्सराश्च तथा पद्मिनी विद्युत् ॥१०॥ विनता सरस्वती सुप्रभा विभूतिः सुमङ्गला चन्द्रा। विजया प्रभावती नन्दिनी श्रीश्चन्द्रकान्ता च ॥११॥ हंसी पथ्या रचिता सौम्या श्यामा विलासिनी लक्ष्मीः । मेधाश्वक्रान्ता सुसंगता मालती द्रुतिका ॥ १२ ॥ वनराजिवंशस्था शशिवदना रत्नमाला च ।
सप्तत्रिंशच्चैता जानीहि मात्रागणसमाः ॥ १३ ॥ एतासां सर्वपादेषु प्रथमपादसदृशा मात्रा गणाश्च [इति] जानीहि ॥ १३॥
चिंता सिद्धी भद्दा गंधारी मालिणी तहा कंदू।
ललिआइ समं सत्तवि इमाउ दइए गणसमाओ॥ १४ ॥ १ आचार्याणां तु AB. २ तासु लक्षणमिहोच्यते AB. ३ Both A and B read दीहधवलच्छि at the beginning of this line. ४ चित्रा Com.