________________
द्वि० नि० ५० १-६] सटीको वृत्तजातिसमुच्चयः
१३. च रथस्थानेऽपि शरो न विरुध्यते । तथैव पञ्चमप्रथमयोरपि शक्तिदण्डः पञ्चमात्रः । एतदुक्तं भवति । गीतिकायास्त्रयो भेदाः। एकः द्वितीयचतुर्थशरः स्यात् । द्वितीयः [तृतीयसप्तमशरः] । तृतीयः पञ्चमप्रथमशरश्चेति । अत्र वैम(चैवं) विनियमयन्ति । तृतीयादीनां पञ्चमात्रादीनां सप्तमादियथोक्तेव(क्त एव) सहयोगे भवति नान्यथेति । तेन यदा तृतीयः पञ्चमात्रस्तदा सप्तमे, यदा द्वितीयः तदा चतुर्थे, यदा पञ्चमे तदा प्रथम इति । एतदभिमतमध्वादीनाम् (!) । विपर्ययोऽपि तैरिष्यत एवेति ॥ ३॥ सामान्यलक्षणस्यैव द्विपद्या विशेषान्तरमाह-वत्थुअ इति ।
वत्थुअगीइअमज्झे वेआरी एक्कअं दुवहअं च। वित्थारिअअं च कईहि कीरए सुअणु इच्छाए ॥४॥ वस्तुकगीतिकामध्ये विचार्यैकक द्विपथकं वा।
विस्तारितकं च कविभिष्क्रियन्ते [सुतनु इच्छया] ॥ ४॥ . वस्तुकस्य गीतिकायाश्चान्तराले कदाचिद्विदारी कदाचिदेककं कदाचिद् द्विपथकं कदाचिच्च विस्तारितकमित्येके । एकं वा द्वौ वा त्रीणि वा सर्व एवेत्यपरे । अस्माकं तु मतं वस्तुकस्य गुरुलाघववशेन यथा लालित्यं भवति तथा विचार्यादीनां रचना विधेयेति ॥४॥ एतेषां लक्षणान्याह-जा वत्थुआइ इति ।
जा वत्थुआइ लहुई सा वेआरित्ति भण्णिआ छंदे । दो पाआ भण्णइ दुवहउत्ति तह एक्कअं एको ॥५॥ या वस्तुकालध्वी सा विदारी संज्ञिता छन्दसि ।
द्वौ पादौ भण्यते द्विपथकमिति तथैककमेकः ॥५॥ तस्य विदारीति छन्दःशास्त्रे संज्ञा कृता या वस्तुकाल्लवी । लाघवमत्र गणकृतमिति केचित् । . एतदुक्तं भवति । यदा पञ्चभिर्गणैर्वस्तुको भवति तदा त्रिभिश्चतुभिर्वा विदारी विधेया । अपरे पादकृतमिच्छन्ति । त्रिभिः पादैविचारी भवति । द्विपथैकके यथासंख्यं द्वाभ्यामेकेन च वचने (पादेन ?) भवतः ॥५॥ विस्तारितकस्येत्याह-दुवईण इति ।
दुवईण जौ ण च्छंदे सारिच्छं वहइ जं च दुअईण। महुरं च कई(इ)अएहिं वित्थारिअअंति तं जाण ॥ ६ ॥ द्विपादीनां यन च्छन्दसि सादृश्यं वहति यच्च द्विपदीनाम् ।
मधुरं च कृतकैर्विस्तारितमिति तज्जानीहि ॥ ६ ॥ त्वं विस्तारितकमिति बुध्यस्व यच्छन्दसि सादृश्यं वहति द्विपदीनां च न वहति च । १ Both A and B add तह अ before इच्छाए. २ अस्मात्कर्तुमतं AB. ३ जो ण छंदो A. ४ द्वितीयादीनां AB. ५ वेड्यति AB.