________________
द्वितीयो नियमः।
इदानी पादकल्पनया द्विपद्यादीनां सामान्यलक्षणमभिधीयते-कीरइ इति ।
कीरइ गणेहि पाओ पाआ चत्तारि वत्थुअं भणियं । . चत्तारि सगीइअवत्थुआई दुवइत्ति निविट्ठा ॥ १ ॥ क्रियते गणैः पादः पादाश्चत्वारो वस्तुकं भणितम् ।
चत्वारि सगीतिकवस्तुकानि द्विपदीति निर्दिष्टा ॥ १ ॥ - सामान्येन तावदेवंविधा द्विपदी निर्दिष्टा कथिता । गणैश्चतुर्मात्रैः पञ्चमात्रैर्वा वक्ष्यमाणरचनया पादः क्रियते 'कुण करकण्ण' (३.१) इत्यादिकया । ते च पादाश्चत्वारो वस्तुकं] भणितमुक्तमाचार्यैः । सह गीतिकया वर्तन्ते सगीतिकानि । सगीतिकानि च तानि वस्तुकानि सगीतिकवस्तुकानि चत्वारि द्विपदीति निर्दिष्टा । एतदुक्तं भवति । वस्तुकस्यान्ते प्रत्येकशो गीतिका कार्या॥१॥ अस्मिन्नेवावसरे गीतिकालक्षणमुच्यते तइअ इति ।
तइअधणु मणिविरमअं सत्तमसरछट्टराअविप्पअं च। परिसेसनिहिअजोहअंगीइअ पुव्वद्धपच्छिमद्धअं च ॥ २ ॥ गीतिका तृतीयकधनुर्म[णि] विरामं सप्तमशरषष्ठराजविप्रं च ।
परिशेषनिहितयोधं गीतेः पूर्वार्धपश्चिमाधं च ॥ २ ॥ पूर्वार्धं पश्चिमाधं च पूर्वार्धपश्चिमार्धमित्येकवद्भावः । उद्गीतिकासंबद्धोऽयं विधिलक्षणे भवतीति विशेषः (१)। कीदृशमित्युच्यते तृतीयं धनुर्यस्मिंस्तत्तृतीयधनुः। बहुविविहपहरणाणं' (१.१७) इत्यादिना पञ्चमात्रस्य धनुरिति संज्ञा । तत्र सामान्येन पञ्चमात्रेषु प्राप्तेषु ‘णिव्वाविअअहिअक्खर' (१.३०) इत्यादिना मध्यगुरो(लघो)श्चतुर्थगुरोश्च द्वयोरेव गीतिकायां प्राप्तिः । किं च माणविरामो यस्य तन्मणिविरामो(मम् ) । राजा च विप्रश्च राजविग्रौ मध्यगुरुचतुर्लघू षष्ठौ यस्य तत् षष्ठराजविप्रकम् । सप्तमः शरः पञ्चमानो यस्य तत् सप्तमशरं सप्तमशरं च तत्षष्ठराजविप्रं सप्तमशरषष्ठराजविप्रम् । षष्ठे राजविप्रयोः पर्यायेणावस्थानम् । अन्यच्च । परिशेषाः तृतीयपश्चमषष्ठसप्तमेभ्यो, योधाश्चतुर्मात्राः सामान्येन मध्यगुरोर्वर्जिताः यस्य तदेवंभूतगीतिकाया अर्धद्वयलक्षणं भवति ॥ २॥ अन्यच्च यादृग्रूपं गीतिकाया लक्ष्ये दृश्यते तदपि दर्शयितुमाह-बिअअ इति ।
बीचउत्थेसु सरो पंचमपढमेसु सत्तिदंडो अ। भणिएसु रहेसुवि गीइआइ ठाणेसु अविरुद्धा ॥ ३ ॥ [द्वितीय]चतुर्थयोः शरः पञ्चमप्रथमयोः शक्तिदण्डश्च ।
भणितेषू रथेष्वपि गीतिकायाः स्थानेष्वविरुद्धौ ॥ ३ ॥ गीतिकायाः स्थानेषु द्वितीयादिषु रथेष्वपि भणितं रुच्यन्ते (?) । तत्र द्वितीये चतुर्थे १ परिसेलनिखिलयोवं AB. २ गीतिर्वा पूर्वा० AB. ३ बिअअ Com. ४ भाणतेष्वपि रथे० AB.