SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [प्रथमो नियमः [अहिअक्खरेति]। निवाइअअहिअक्खरगणसमदुवईण सीसआणं च । मज्झलहुचउत्थगुरू अ गीइआणं वि हि[अ] अंसा ॥३०॥ अधिकाक्षरानिर्वापितागणसमद्विपदीनां शीर्षकाणां च । मध्यलघुश्चतुर्थगुरुश्च गीतिकानां च हितावंशौ ॥ ३०॥ अधिकाक्षरादीनां वृत्तजातीनां तथा निर्वापितानां गणसमानां च सप्तानां द्विपदीनां शीर्षकानां तथा मध्यमलघुश्चतुर्थगुरुश्चेति हितावंशौ लालित्योत्पादनात् । गीतिकानां च तथा हि तावेव ॥३०॥ गणसमानां विधानान्तरमाह-एकदुव(म)त्त इति । एकदुमत्तम्भहिओ हीणोवि पसंसिओ विसहरेहि । पाओ सत्तन्ह वि गणसमाण दुवईण पसअच्छि ॥ ३१ ॥ एकद्विमात्राभ्यधिको हीनश्च कथितो विषधराभ्याम् । पादः सप्तानामपि गणसमानां द्विपदीनां प्रसृताक्षि ॥ ३१ ॥ • तिवासरूप (8) विषधराभ्यां पादः सप्तानामपि गणसमानां एकया मात्रया हीनो न्यूनः प्रशस्तोऽङ्गीकृतः अभ्यधिकयाप्यङ्गीकृत एव । एवं द्वाभ्यामपि मात्राभ्यां हीनाधिकत्वेङ्गीकृते गुरुलघुविन्यासे पदच्छेदयतीनां सर्वथाभावह(वत् )त्वं प्रयोजनम् । तत् यदि हीनाधिकत्वेप्यासां शोभा न हीयते तत्का क्षतिरिति ॥ ३१ ॥ संज्ञान्तरार्थमाह-समर इति । समरं समोत्ति अ समे विसमम्मि अ सायरोत्ति विसमोत्ति । पाओ गणोव्व ठाणो भण्णइए सुअणु वित्ताण ॥ ३२ ॥ समरः सम इति [च] समे विषमे च सागर इति विषम इति । पादो गणो वा स्थान भण्यते सुतनु वृत्तानाम् ॥ ३२ ॥ समे प्रदेशे पादो वा चतुर्मात्रादिगणो वा स्थानं द्विचतुर्थादि समर इति भण्यते । किमियं संज्ञा पर्यायरूपेण आहोस्विद्विशेषेण रूपेण स्थितेत्युच्यते । नापवादरूपेण किं तर्हि सम इति भण्यते । विषमे प्रदेशे पादादीनां सागरसंज्ञा विषमसंज्ञा चेति द्वयं विहितम् । अन्ये त्वाहुः । हे असमे प्रिये न विद्यते समास्या इति कृत्वा । समरः सम इति भण्यते । तद्वच्च विषमोक्ते विषमा अनन्यसदृशा उक्तयो यस्या इति कृत्वा । विषमे सागर इति भण्यते । युज्यत एतत् । पण्डितानां तु मनांसि नात्यावर्जयति । प्रसिद्धस्य प्रथ[म]मुपदेशो युक्तः पश्चाद्विधेयस्येति । तथा योयं देवदत्त इति प्रसिद्धस्तस्याद्यप्रकृ(झ)तिरर्ध (2) इति नामास्त्विति । इह तु समः प्रसिद्धः । योसौ सम इति भण्यते तस्य समर इति नामास्तु इति प्राप्ते कथं विपर्ययो रञ्जयति विदग्धचेतांसि । अस्माभिस्तु द्वयमपि दर्शितम् ॥ ३२॥ १ अहिअक्खरनिन्वाइअ Com. २ विअ हिअंसा A. ३ विषमे दश सागर इति विशेषम इति AB. ४ स्युरेवो AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy