________________
१०५
पद्यानि ५६-६१]
सटीको वृत्तजातिसमुच्चयः किंच। वहई। इति । विहई तओवि विउणा तत्तो ति(वि)उणा वि पंत्तित्ति ॥ ५९॥
बृहती ततो द्विगुणा तद्विगुणा च पङ्क्तिरिति ॥ ५९ ॥ बृहती नवाक्षरा ततोऽष्टाक्षरपरिमाणाद् द्विगुणा । ततोपि पङ्क्ति । एवं त्रिष्टुप्प्रभृतीनि ॥ ५९॥ [एवं इति ।
एवं विउणाविउणं पिंडजह जाव छन्वीसं। एकेकंमि अ पुसँह रूअं विउणीकमि रोसिमि ॥६॥ एवं द्विगुणं द्विगुणं पिण्डय तावद्यावत् षड्विंशतिः।
एकैकस्मिन्नपमार्जय रूपं द्विगुणीकृते राशौ ॥ ६०॥ [एवं] द्विगुणद्विगुणया पिण्डय तावद्यावत् षड्विंशत्यक्षरा उत्कृतिरागच्छति । अत्र सर्वत्रैव द्विगुणे सत्येकस्य लोपः कार्यः इत्यतिव्याप्तिपरिहारायास्माभिर्गाथाधं निवेशितं एकेकंमि [इति । अनेन गाथार्धेन सर्वेषामध्वयुक्तिर्घटते । एतदेवोक्तमन्यैर्यथा ।
द्वाभ्यां समहता संख्या रूपेणैकेन वर्जिता।
छिन्नवृत्ताङ्गुलव्याप्तिरध्वयोगः प्रकीर्तितः ॥ इति ॥६॥ उत्कृतेरध्वपरिमाणमाह [जोअगसत्तासीइ इति] ।
[जोअणसत्तासीई दो कोसा धणुसरं च इक्कहियं । हत्थेको दो रामा उक्किइछंदस्स परिमाणं ॥ ६१ ॥]
योजनानि सप्ताशीतिद्वौं क्रोशौ धनुःशतमेकाधिकम् ।
हस्त एकः द्वौ रामावुत्कृतिछन्दसः परिमाणम् ॥६१ ॥ अयमप्यनार्षः पाठः । यद्वद्वत्ताङ्गुलद्विगुणाया मूलसंख्याया एकोनन्यूनत्वादमुलानां त्रयोदश कोटयो द्वाचत्वारिंशल्लक्षाणि सप्तदश सहस्राणि सप्तशतानि सप्तविंशत्यधिकानि संभवन्ति । तेषां च रामैश्चतुर्भाह्नते कोटयस्तिस्रो लक्षाणि पश्चत्रिंशत् चतुःपञ्चाशत्सहस्राणि चत्वारि शतान्येकत्रिंशदधिकानि भवन्ति अङ्गुलानि च त्रीण्येव शिष्यन्ते । पश्चाद्वितस्तिभिस्त्रिभागैर्हते कोटिरेका दश लक्षाणि चतुरशीतिसहस्राणि दशाधिकानि चाष्टौ शतानि भवन्ति । रामः एकः शिष्यते । पश्चात् हस्तैर्द्विभागे हृते पञ्चपञ्चाशल्लक्षाणि द्विनवतिः सहस्राणि चत्वारि शतानि पञ्चाधिकान्यष्षोड(:) शेषो नास्ति । अनन्तरं हस्तानां धनुर्भिश्चतुर्भागे हृते त्रयोदशलक्षाण्यष्टनवतिसहस्राणि शतं चैकाधिकं भवति । हस्त एकः शिष्यते । ततोऽपि तेषां क्रोशैर्भागे हृते सहस्रद्वयेन षट्शतानि नवत्यधिकानि भवन्ति । एकाधिक धनुःशतं शिष्यते । क्रोशानां योजनैरप्यष्टभागे शोधिते सप्ताशीतिर्भवति । क्रोशत्रयं तु शिष्यते ॥६॥
१ The whole line is reproduced here. B. २ कवि AB. ३. See note 3 on p. I03. ४ पुंसस AB. ५ रासंमि AB. ६ Stanza 62 of the text wrongly reproduced here in the Com. AB.
Reconstructed from Com. 2 चमरैश्चतु. AB. ९ चत्वा...हृते B.