________________
पद्यानि ५१-५५]
सटीको वृत्तजातिसमुच्चयः एवं सर्वेषामपविस्यपरादोः सत्वा(?)कर्तव्यं गाथारूपलक्षणम् । अनया प्रक्रियया वैतालीयादौनामतिव्याप्ति यातीत्यतोऽस्माभिर्गाथेयं रचिता—वइआलिय] इति ।
वइआलिअसमपाए अट्ठिअचलणमाणमुप्फुससु। तइअचउत्थेसु सआ ठाणेसुं णिअविअप्पगुणिएसुं ॥ ५४॥
वैतालीयसमपादे मार्गस्थितचरणमान]मुन्मार्जय ।
तृतीयचतुर्थयोः सदा स्थानयोर्निजविकल्पगुणितयोः ॥ ५४ ॥ वैतालीयस्य प्रत्येकं द्विमात्रो द्विप्रभेदगुणिते समपादे द्वितीयचतुर्थादौ तृतीयचतुर्थगणस्थानयोनिजेनात्मीयेन विकल्पेन गुणितयोः सतोः मार्गस्थितचरणमानं पश्चान्निविष्टपादसंख्यामुन्मार्जय। शोधय । यथा प्रथमौ द्वौ गुणितौ चत्वारो द्वितीयविकल्पे भवन्ति । तृतीयेष्टौ । विहंगपतिध्वजाग्रस्थानमेकप्रभेदत्वान्न गुण्यते । तस्मात् तत्स्थानद्वयमपि मानवत् । अनन्तरं द्वितीयपादस्य प्रथममष्टभिर्द्वयोर्गुणनात् षोडश भवन्ति । तेनापि द्वितीयद्वयोर्द्वात्रिंशत् । ततश्च तैस्तृतीयस्य चतुःषष्टिर्या जायते तस्य मार्गस्थितचरणमानोन्मार्जनं मार्गस्थितचरणस्य प्रथमपादस्य मानमष्टौ तेषां शोधनात् षट्पञ्चाशद्भवन्ति । तेनापि चतुर्थे द्वयोर्द्वादशाधिकशतं तत्रापि मार्गे स्थितचरणमानस्याष्टकस्योन्मार्जनाच्चतुरधिकं शतं भवति । तृतीयपादस्य प्रथमे द्वयोरनन्तरसंख्यया गुणनादष्टाधिकं शतद्वयं भवति । द्वितीये द्वयोः षोडशाधिकं शतचतुष्टयं तैश्च तृतीये द्वयोरष्टौ शतानि द्वात्रिंशदधिकानि भवन्ति । अनन्तरं चतुर्थपादस्य प्रथमे द्वयोः संख्या षोडशशतानि चतुःषष्टयधिकानि जायन्ते तैर्द्वितीये त्रयस्त्रिंशच्छतानि अष्टाविंशत्यधिकानि भवन्ति । तैरपि तृतीये षट्षष्टिः शतानि षट्पञ्चाशदधिकानि भवन्ति । तेषां मार्गस्थितचरणत्रयमानमष्टशतानि द्वात्रिंशदधिकानि इत्यनेन लुप्त्या अष्टपञ्चाशत् शतानि चतुर्विंशत्यधिकानि भवन्ति । अनन्तरं चतुर्थेपि तेषां गुणनान्मार्गस्य(स्थिति]चरणमानोन्मार्जनाच्च दशसहस्राणि अष्टौ च शतानि षोडशाधिकानि यानि भवन्ति ॥ ५४ ॥ ___ सामान्येनाह–दुवईगंण इति ।
दुवईगणसव्वा[म्मा]णं मत्ताअडिलाण तह अ सम्माणं । लहुगणणं चिअ विहडइ छा(छ)उओवरि सीसआणं च ॥५५॥
द्विपदीनां गणसमानां मानांडिलानां तथैव शम्यानाम् ।
लघुक्रिया एव विघटते तथा शीर्षकीनां च ॥ ५५ ॥ एतेषां वृत्तानामनियतांशकलत्वाल्लघुक्रियैव विघटेत नान्यत्प्रस्तारादि ॥ ५५ ॥ इदानीमध्वोपयोगि योजनादिलक्षणमाह-चउअंगुल इति ।
१ The stanza is wholly reproduced here. AB. २ पुप्पुसमुत AB. ३ Portion from तृतीयेष्टौ to ततोपि पंक्तिः (both inclu.) on p. 105, 1. 4 is dropped in A. ४ गुणं दृष्टाधिकं B. ५ द्वन्तरसंख्या B. ६ भष्टपञ्चशतानि B. ७ सामान्येवाथा । दुपरेणेति B. ८ गुणसमानां B. ९ मात्रारत्नानां B. १० गम्यानां B. ११ लधुर्जमा B. १२ संख्यानामकादीनां B.