________________
१०२
सटीको वृत्तजातिसमुच्चयः
(i) समाभेदा स्कन्धकप्रमुखानां विषमा भवन्ति । विपरीताश्च लघवः शाल्मलिप्रस्तारनिर्दिष्टाः ॥ ५० ॥
गाथानां समा भेदाः षड्विंशतिः स्कन्धकानां विषमा एकोनत्रिंशद्यथा । लघवः पुनर्विपरीताः समानां विषमा विषमाणां च समा इत्यर्थः । एते च भेदा लघवश्व मया शाल्मलिप्रस्तारे निदर्शिताः ||१०||
भेदसंख्यार्थमाह – [गाहाणं इति ] |
गाणं जाईओ सुन्दरि भणिआओ जइवि छव्वीसा । जलणिहिपत्थारे उण अण्णच्चि पिंडणा होइ ॥ ५१ ॥
[ गाथानां जातयः सुन्दरि भणिता यद्यपि षड्विंशतिः । जलनिधिप्रस्तारे पुनरन्यैव पिण्डना भवति ॥ ५१ ॥ ]
यद्यप्येताः षड्विंशतिरुक्ता जातयस्तथापि जलनिधिप्रस्तारे अन्यैव पिण्डना गणना भवति ॥५१॥ तामाह — सव्वे पुव्वविअप्पा इति ।
सव्वे पुव्वविअप्पा गुणिऊणं उत्तराण दाअव्वा । गाहासंखाणअणं इअ पुव्वाणं अ णिहिं ॥ ५२ ॥ सर्वे पूर्वविकल्पा गुणयित्वोत्तरेषां दातव्याः । गाथासंख्यानयनं [इति] पूर्वेषों निर्दिष्टमे ॥ ५२ ॥
[ षष्ठो नियमः
पूर्वविकल्पाश्चतुःपञ्चकप्रभृतयः सर्वे गुणयित्वा पिण्डयित्वा उत्तरेषां दातव्याः । अन्तिमं च यावदन्ते फलं भवति सा संख्या वक्तव्या इति पिङ्गलादिभिरुक्तम् । यथा प्रथमा ( मैं ) श्वतुर्भिः पञ्च गुणिता द्वितीये विंशतिर्भवन्ति । तृतीये तैश्चत्वारो गुणिता अशीतिर्जायते । चतुर्थे तया पश्च गुणिताः चत्वारि शतानि जायन्ते । पञ्चमे च तैश्चतुर्णां गुणने षोडश शतानि भवन्ति । षष्ठे तैर्द्वयोर्गुणनात् द्वात्रिंशच्छतानि संपद्यन्ते । सप्तमे तैश्चतुर्णां गुणनाद् द्वादश सहस्राण्यष्टौ शतानि च । अष्टमे तथैव । नवमे तैश्चतुर्णामेकपञ्चाशत्सहस्राणि शतद्वयं च भवति । दशमे तैरपि च पञ्चानां लक्षद्वयं षट्पञ्चाशत्सहस्राणि भवन्ति । तैरेकादशे चतुर्णां दशलक्षाणि चतुर्विंशतिसहस्राणि जायन्ते । द्वादशे एकपञ्चाशलक्षाणि विंशतिश्च सहस्राणि । तैरपि त्रयोदशे चतुर्णां कोटिद्वयं चत्वारि लक्षाणि अशीतिश्च सहस्राणि । चतुर्दशे तथैर्वै ॥ ५२ ॥
पञ्चदशे चतुर्णां संख्यानामेवाह — अट्ठे इति ।
अट्ठेव अ कोडीओ [परओ] एकूणवीसलक्खाई । वीससहस्साइं तहा गाहाणं एत्तिआ संखा ॥ ५३ ॥
अष्टावेव कोटयः पराण्येकविंशतिर्लक्षाणि ।
विंशतिः सहस्राणि तथा गाथानामियती संख्येति ॥ ५३ ॥
१ अस्यैव AB. २ पूर्वादार्यनिर्दिष्टं AB. ३ द्वारं सत् AB. ४ तथैते पञ्च AB. ५ अट्ठिट्ठए AB. ६ Before this word both A and B repeat the words अई गणसव्वाणं मत्ताअडिला from v. 55.