SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पद्यानि २८-३३] सटीको वृत्तजातिसमुञ्चयः अनयोर्विस्तारमाह-विसमंकेसु इति । विसमंकेसु अ चमरं समेसु फरिसं ठवेह वित्ताणं । अद्धद्धं ओसक्कइ णटुंके सव्वकडआई ॥ ३१॥ जत्थ अ ण देइ भाअं एकं दाऊण तत्थ पिंडह । भाए दिण्णे अ फुडं मयच्छि णटुं विआणेहि ॥ ३२ ॥ विषमाङ्केषु च चामरं समेषु स्पर्श स्थापय वृत्तानाम् । अर्धमर्धमवेष्वष्कते नष्टाङ्के सर्वकटकानि ॥ ३१ ॥ यत्र च न ददाति भागमेकं दत्वो तत्र पिण्डय। भागे दत्ते च स्फुटं मृगाक्षि नष्टं विजानीहि ॥ ३२ ॥ यमेवाङ्कमुद्दिश्य प्रष्टा पृच्छति स यदि विषमो भवति तदार्धमसमर्प्य चमरं स्थापय । समश्चेत्तस्या|पसर्पणे स्पर्शमिति । नष्टाङ्के सति सर्वकटकानि सर्वे गुरवः स्थाप्यन्ते । नष्टत्वमङ्कस्य एककप्राप्तिः । न च विषमाङ्कात्कथमधलाभः । एतदर्थेनैवोक्तं यत्र प्रक्रियमाणं भागं न प्रयच्छति विषमाङ्के त्रिपश्चसप्तादिस्तत्रैकं दत्वार्धापहारो विधेयः ॥ ३१॥ ३२॥ कियदवध्यन्ते क्रियत इत्याह—अद्धद्धं इति । अद्धद्धं ओसक्कइ बहुसो बाहाइ जाव अ समत्तं । जै णिहणे ते वित्तं णटुंमि अ पच्चअं एयं ॥ ३३ ॥ अर्धमर्धमवष्व॑ष्कते बहुशो भांगा [द्यावच्च समाप्तम् । यन्निधने तद्वृत्तं नष्टे च प्रत्यय एषः] ॥ ३३ ॥ यावत्तद्वृत्तं समाप्तमिति । तस्मिन्समाप्ते यन्निधनेऽन्ते रूपं दृश्यते तद्वत्तं दर्शनीयम् । इत्येतनष्टाके प्रत्ययमिति यथा-षडक्षरस्य सप्तमः प्रभेदः कीदृश इति प्रश्ने तदेव स्थापनीयम् । पश्चात् 'जत्थ अण देइ भाअं' इति सैकं कृत्वा अर्ध चापहृत्य 'विसमंकेसु'इति स्थानिवद्भावागुरुर्निवेश्यः । अनन्तरं तदर्धस्य चतुष्कस्यार्धे हृते ‘समेसु फरिसं' इति लघु दत्वा पश्चात्तस्याप्यर्धे हृते लघोः एव स्थापनम् । एवमक्षरत्रय आदिगुरवोयेते (?)। तच्छिष्टमेककं तदेवार्धग्रहणाय सैकं कृत्वाधं च गृहीत्वा गुरुमेव स्थापयेत् । एवं चतुर्थमक्षरं लघु लब्धं भवति । पुनरपि तस्य सैककरणार्धापहाराभ्यां गुर्वक्षरस्यैव लाभः पञ्चमस्य । षष्ठस्य गुरोस्तथैव कर्तव्यमत एवोक्तम्-'अद्धद्धं ओसक्कइ बहुँसो बाहोई जाव अ समत्तं' इति । एवं गुरु-लघुद्वय-गुरुत्रयरूपं षडक्षरस्य सप्तमं दर्शयेत् । उदा० SII SSS ॥३३॥ उद्दिष्टमाह-अंतं फरिसं" इति । १ मषष्ठकांते AB. २ द्वादश AB. ३ चमनं AB. ४ गरुडे च AB. ५ कियदवबध्यन्ते A; कियदवबध्येत B. ६ जाणहणित्तं AB. ७ पच्चमअं AB. ८ अष्टककृते AB. ९ वानां AB. १० मैकं AB. ११ सं A. १२ तदस्माप्यरे ह्यते B; तदस्यापरे हृते A. १३ स्यैककरणापापहाराभ्यां AB. १४ बहुलो बारा AB. १५ हरिदाउ AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy