SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ २८ सटीको वृत्तजातिसमुच्चयः [षष्ठो नियमः लहुभाणं वण्णाणं आणअणे तहब्वि(वि)अ गुरूणं ॥२८॥ लघूनां वर्णानामानयने तथैव गुरूणाम् ॥ २८ ॥ लवादीनामानयने यथा त्रयो लघवस्त्रिंशद्वर्णाः सप्तविंशतिर्गुरव इति प्रथमस्याम् । एवं द्वितीयस्यामधो (2) द्वितीयस्थानात् यथा पञ्च लघवो वर्णा एकत्रिंशत् षड्विंशतिश्च गुरव इति । तृतीयस्यां तृतीयात्स्थानात् यथा सप्त लघवो वर्णा द्वात्रिंशत् पञ्चविंशतिश्च गुरव इति । एवं सर्वत्र कर्तव्यम् । उदाहरणम्-३, ३०, २७ । ५, ३१, २६ । ७, ३२, २५। गाथा[ना]मित्युपलक्षणं प्राधान्यात् । तेन स्कन्धकादीनामयमेवोपायः । स्कन्धके यथा प्रथमं चत्वारो द्वितीयं चतुस्त्रिंशत् तृतीये त्रिंशत् । अत्रैव तथापि तथैव वृद्धिहीनी । न केवलं स्कन्धादीनां यावत्सुमनःप्रभृतीनां द्विपदीनामप्यन्येषां च । यथा सुमनसः प्रथममष्टौ ततो द्वात्रिंशच्चतुर्विंशति[श्चेति स्थानत्रये स्थापिते तथैव वृद्धिक्षयौ विधेयौ । अत्र तावत्समर्प्यते यावच्चत्वारोन्ते शिष्यन्ते । एवं सति प्रथमभेदेऽष्टौ लघवो वर्णा द्वात्रिंशत् चतुर्विंशतिश्च गुरव इति कथ्यन्ते ॥ २८ ॥ तस्मात्प्रत्येकं पाते(?) [ती]पंणासं इति । तीपण्णासं पंचावण्णा दोच्चिअ कमेण ठविऊण । दोहाणि एक्कवड़ी एक्केकं हीरए तहा मज्झे। विवरीअसंवलीए होइ विहाणं इमं छउए ॥२९॥ त्रिपञ्चाशत्पञ्चपञ्चाशत् द्वौ चैव क्रमेण स्थापयित्वा । द्विहानि रेक वृद्धिरेकैकं हियते तथा [मध्ये ।। विपरीतशाल्मलेर्भवति विधानमिदं छाते ॥ २९ ॥ हे छाते तन्वि प्रथमे त्रिपञ्चाशत् द्वितीये पञ्चपञ्चाशत् तृतीये च द्वौ इति क्रमेण स्थापयित्वा तथैव क्रमेण द्वाभ्यामेकेन च हानिर्योज्या । एकेन च तृतीये वृद्धिः । एवं तावत्कार्यं यावच्छात्मॅलिप्रभेदो नाम । अत्रापि स्कन्धकादीनां अयं कर्तव्यः ॥ २९ ॥ नष्टोद्दिष्टमाह-एत्तिअमित्ते इति । एतिअमेत्ते अंके कअरो वेत्तित्ति णट्र होइ। एअं जाणह वित्तं कअम्मि ठाणम्मि उद्दिटुं ॥ ३०॥ एतावत्यके कतरवृत्तमिति नष्टं भवति । तज्जानीहि वृत्तं कतमे स्थान इत्युद्दिष्टम् ॥ ३० ॥ प्रथमैकादिकेऽङ्के स्थापिते यत्कश्चित्पृच्छत्येतावत्यके सति कतरद्वृत्तं भवति कीहक्स्वरूपं गुरुलघुरिति नष्टसामान्यलक्षणम् । यच्च वृत्तं प्रस्तीर्य कश्चित्पृच्छति एतद्वृत्तं जानीहि तावत्कृतमे स्थाने द्वितीय आहोस्वित्तृतीय उत्तान्यस्मिन्क्वचिदित्युद्दिष्टलक्षणम् ॥ ३० ॥ १ बहूनां AB. २ प्रथम: स्यात् AB. ३ चक्षरो AB. ४ वृद्धहारी AB. ५ सिष्टते AB. ६ स्थापयेत् द्वौदेवक्रमेणानेन AB. ७ शाल्मले: प्रथमः प्रभेदो नाम ? ८ भतष्कर्तव्यः AB. ९ एत्तेअमेत्ते AB. १० कथमेव AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy