SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७२ सटीको वृत्तजातिसमुच्चयः चितुर्थो नियमः अन्यद् व्याहरते प्रिया अन्यजननी यथा सिलिम्भानाम् । छन्दसि य(त)था मुग्धे जानीहि वृत्तानां नामानि ॥ १०८॥ एतदुक्तं भवति । नाम्नि नाभिनिवेष्टव्यम् । अत्र दृष्टान्तद्वारेण युक्तिरुच्यते । पुरुषाणां यथा पृथक् वल्लभसुभगदयितादिभिः नामभिर्व्याहरते तथा सिलिम्भा बालास्तेषां च जातवत्सेत्यादिभिर्नामभिर्मातो व्याहरतेऽर्थवशात्तद्वदेव छन्दसि वृत्तानां नामानि बन्धवशात् भवती(न्ती)ति । तथा चोक्तम् अपत्यस्य च [जातस्य वृत्तस्योत्पादितस्य च । नाम स्वच्छन्दतः कार्य सैतवस्य वचो यथा ॥ इति॥ १०८॥ परिमाणं इति । परिमाणं णत्थिच्चिअ णअंगि वी(वित्ताण जीअलोअम्मि । अणुदिअहं कइसत्थो अजवि विरएइ अण्णण्णे ॥ १०९ ॥ __इअ कइसिट्ठवित्तजाईसमुच्चये चउत्थो णिअमो समत्तो ॥ परिमाणं नास्त्येव नताङ्गि वृत्तानां जीवलोके । अनुदिवसं कविसार्थों अद्यापि विरचयत्यन्यदन्यत् ॥ १०९॥ अस्यायमर्थः । वृत्तान्यपरिमेयानि अपरिमेयश्च कविसार्थोऽप्यद्यापि अन्यदन्यन्नवं नवं विरचयति । एतदेव प्रयोजनमाचार्यस्य अस्य स्व(प्र)वृत्तौ पिङ्गलविरचितेषु सत्स्वपि शास्त्रेषु महाकविप्रबन्धेषु दृश्यन्ते यानि वृत्तानि तानीह रचितानि यस्मात्तेन संगृहीतानीति ॥ १०९॥ [इति] चतुर्थो नियमः। १ अन्यजनिनी AB. २ नामभिर्दात AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy