SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः । लडादार्थनिरूपणं । लट् । लिट् । लुट् । लट् । लेट् च । लोट् च । लङ् । लिको । लुङ् । लूडो तथा। पाशीरर्धे च लिङ्चेति दश लो लेट् च छन्दसि । १६ ॥ वर्तमानक्रियावृतेधातार्लट्चेति मन्यतां । भूतानद्यतनासक्तपरोक्षार्थे च लिट् भवेत् ॥ २० ॥ अनद्यतनभूतार्थभविष्यति च लुट् भवेत् । क्रियार्थायां क्रियायां वा सत्यां सत्यां भविष्यति ॥ २१ ॥ टट् स्याद्वेदे तु लेट्बोध्यं विध्याद्यर्थेषु लोट् भवेत् । अनद्यतनमतार्थवृत्तेर्धातास्तु लङ् स्मृतः ॥ २२ ॥ विधो निमन्त्रणा चार्थे चामन्त्रणाघोष्ठयोरपि । सम्प्रश्नप्रार्थनार्थे च लिङ् स्याद्धयालिडाशिषि ॥ २३ । भतार्थ लुङ् लिङ्गिमित्ते क्रियानिष्पत्तिसूचके । भविष्यत्यर्थकाधातालंङ् स्यादित्यर्थनिर्णयः ॥ २४ ॥ सकर्मकेभ्यो धातुभ्यो लस्स्यु:कर्मणि कर्तरि । अकर्मकेभ्यो धातुभ्यो भावे लम्स्युःश्च कर्तरि ॥ २५ ॥ अथाष्टादश लादेशाः। तिम् । तस् । मि । सिप । थसश्चेव । थ । मिप । बरु मस् । च प्रत्ययाः । परस्मैपदसञ्जास्स्युलडादेथा नवेव ते । २६ ॥ तातांमथास प्राथांध्वं इट् वहिमहि च क्रमात । एते नव लडादेशा आत्मनेपदिनोभवन् ॥ २० ॥ तिबाद्यताश्च लादेशाः परस्मेपदिनोभवन् । लादेश स्तो तङानो च ह्यात्मनेपदसज्जिको । २८ ॥ उपदेशेनुदात्ताल्लो डिहातारात्मनेपदं । तदिन्नधाताः कर्षर्थे परस्मैपदमिष्यते ॥ २६ ॥ स्वरितेतो जितो धातोः कर्तृगे तु क्रियाफले। पात्मनेपदमन्यच परस्मैपदमिष्यते ॥ ३० ॥ हेतुमण्यन्तधातुभ्योप्येषमूहा मनीषिभिः । सन्नन्तसर्वधातुभ्य: सन् प्रकृत्या पदं भवेत् ॥ ३१ ॥ यङन्तसर्वधातुभ्योप्यात्मनेपदमिष्यते । यङ्लुङन्तादिधातुभ्यः परस्मेपदमिष्यते ॥ ३२ ॥ सामान्यतो व्यवस्थेयं दर्शितेत्यवगम्यतां । प्रथमो मध्यमश्वैवं चोत्तमश्चेति सज्जिकाः । चीणिचीणि क्रमादोध्या उभयोः पदयोस्तितः । ३३ । चीणिचीण्यकशःप्रामप्रथमादीनि वे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy