________________
साहित्यदर्पणे
यथा-देशराजचरितम्।
गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते । यथा-विरुदमणिमाला।
करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ।। ३३७ ।। यथा मम-पौडशभाषामयी प्रशस्तिरत्नावली।
एवमन्येऽपि भेदा उद्देशमात्रप्रसिद्धत्वादुक्तभेदानतिक्रमाच्च न पृथग्लक्षिताः।
इति श्रीमन्नारायणचरणारविन्दमधुवंतसाहित्यार्णवकर्णधार-ध्वनिप्रस्यापन • परमाचार्य-कविसूक्तिरनाकराऽष्टादशभाषावारविलासिनीभुजङ्गसान्धि. विग्रहिक-महापात्र-श्रीविश्वनाथकविराजकृतौ साहित्यदर्पणे
दृश्यश्रव्यकाव्यनिरूपणो नाम षष्ठः परिन्छेदः ।
विरुदं लक्षयति-गद्यपद्यमयीति । गद्यपद्यमयी गद्यपद्यात्मका, राजस्तुतिःभूपालगुणकीर्तनं, "विरुदम्" उच्यते ।
विविधभाषामयं करम्भककाव्यं लक्षयति-करम्भकं त्विति । विविधाभिः= बनेकप्रकाराभिः, भाषाभिः, विनिर्मितं काव्यं "करम्भकम्" इत्यभिधीयते।
काव्यभेदानुपसंहरति-एवमिति । अन्येऽपि = अपरेऽपि, भेदाः काव्यविशेषाः । उद्देशमात्रप्रसिद्धत्वात = उद्देशमात्रेण ( नाममात्रकीर्तनेन ) प्रसिद्धत्वात् (प्रख्यातत्वात् ), उक्तभेदाऽनतिक्रमाच्च = उक्तभेदेषु (निरुक्तकाव्यभेदेषु ) प्रसिद्धत्वात् (अनतिरिक्तत्वात यथातथं तत्रैवान्तर्भावाच्चेति भावः ) न पृथक् लक्षिताः पार्थक्येन । नो लक्षणाङ्किताः, मुख्य भेदाऽन्तःपातित्वादिति भावः । .इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकलाऽभिख्यायां साहित्यदर्पण.
व्याख्यायां षष्टः परिच्छेदः ।।
जैसे-देशराजचरित। विरुद-गद्यपद्यमयी राजस्तुतिको “विरुद" कहते है । जैसे-विरुदमणिमाला।
करम्भक-अनेक भाषाओंसे रचित काव्यको "करम्भक" कहते हैं । जैखे ग्रन्थकारकी रची हुई सोलह भाषावाली-प्रशस्तिरत्नावली।
इस प्रकार और भी भेद है, उद्देश मात्रसे प्रसिद्ध होने में पूर्वोक्त भेदसे अतिरिक्त न होनेसे भी उनका पृथक् लक्षण नहीं किया गया।
साहित्यदर्पणके अनुवादमें षष्ठ परिच्छेद समाप्त हुआ।