________________
५९४
साहित्यदर्पणे
-
-
-
-
-
छन्दसा स्कन्धकेनैतत्क्वचिद् गलिगकैरपि ।। ३२६ ।। यथा-सेतुबन्धः । यथा वा मम-कुवलयाश्वचरितम् ।
अपभ्रंशनिबद्धेऽस्मिन् सर्गाः कुडवकाभिधाः । तथापभ्रंशयोग्यानि च्छन्दांसि विविधान्यपि ।। ३२७ ।। यथा-कर्णपराक्रमः। भाषाविभाषानियकात्काव्यं सर्गसमुज्झितम् ।
एकार्थप्रवणः पद्यः सन्धिसामग्रथवर्जितम् ।। ३२८ ॥ निमिते, सस्मिन् महाकाव्ये, सर्गा आश्वाससज्ञका भवन्ति । एतत् = प्राकृत भाषामयं महाकाव्यं, क्वचित् स्कन्धकेन च्छन्दसा, क्वचिच्च गलितकश्छन्दोभिनिबद्धयते ॥३२६।।
प्राकृतमहाकाव्यमुदाहरति-सेतुबन्धः कुवलयाश्वचरितम् ।
अपभ्रंशभाषानिबद्ध महाकाव्ये विशेष प्रतिपादयति-अपभ्रंशेति । अपभ्रंशः निबढे = अपभ्रंशेन (अपभ्रंशभाषया) निबद्धे ( रचिते ), अस्मिन् = महाकाव्ये । सर्गाः; कुडवकाऽभिधाः - कुडवकन्नामानः, तथाऽपभ्रंशयोगानि विविधानि = अनेकप्रकाराणि, छन्दांसि भवन्ति ।। ३२७ ॥
अपभ्रंशमयं महाकाव्यमुदाहरति- यथा-कर्णपराक्रमः ।
भाषाविभाषामयं काव्यविशेष लक्षयति-भाषाविभाति । भाषाविभाषानियमाव-भाषा (संस्कृतम् ), विभाषा ( शौरसेन्यादिप्राकृतभाषा), 'तयोनियमात, "भाषाविशेषाऽनियमाव" इति पाठान्तरं-तत्र संस्कृतेनैव कर्तव्यं, प्राकृतेनेव कर्तव्यमिति एकातरमाषाया अनियमाद, भाषाद्वयमाश्रित्येति भावः, संस्कृतेनारब्धे संस्कृतेनंव, विभाषयाशरब्धे, तयैव कर्तव्यमिति नियमात्, कृतमिति शेषः । सर्गसमुज्झितं = सर्ग: रहितम् । एकार्थप्रवर्णः = एकविषयतत्परः, एकवाक्यताऽऽपनैरिति भावः। तादृशः फ्य रचितमिति शेषः । सन्धिसामग्र्यजितं = सन्धिसाकल्यरहितं, "काव्यं" भवति ।। ३२८॥ कहते हैं । इसमें स्कन्धक वा कहींपर गलितक छन्द होते हैं ।। ३२६ ।।
जैसे-सेतुबन्ध, जैसे ग्रन्थकारका कुवलयाश्वचरित ।
कुडवक-अपभ्रंश भाषासे निबद्ध महाकाव्यमें सर्गको "कुडवक" कहते हैं। उसमें अपभ्रंश भाषाके योग्य अनेक छन्द होते हैं ।। ३२७ ।। जैसे-कर्णपराक्रम ।
फव्य-भाषा (संस्कृतभाषा) और विभाषा (शौरसेनी आदि प्राकृत भाषा)के नियम रचित एक विषयमें तत्पर पद्योंसे रचित, सर्गसे रहित और जिसमें सब सन्धियाँ न हों ऐसे प्रबन्धको "काव्य" कहते हैं ॥ ३२८ ।।