________________
षष्ठः परिच्छेदः
स्त्रीपुसयोर्विपर्यासचेष्टितं पुष्पगण्डिका ॥ २१७॥ अन्यासक्तं पति मत्वा प्रेमविच्छेदमन्युना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ॥ २१८ ।।
स्त्रीवेषधारिणां पुंसां नाट्यं श्लक्ष्णं त्रिगूढकम्। यथा मालत्याम्'मकरन्द:-एषोऽस्मि मालती संवृत्तः।'
कश्चन भ्रष्टसंकेतः सुव्यक्तकरणान्वितः ॥ २१९ ॥ स्त्रीपुसयोः योषापुरुषयोः, विपर्यासचेष्टितं = विपर्यासेन ( वैपरीत्येन ) चेष्टितं भवति स्त्रीकृतं पुरुषस्य, पुरुषकृतं च स्त्रियाश्चेष्टितमिति भावः, सा "पुष्पगण्डिा " नाम लास्याऽङ्गम् । उदाहरणमन्वेषणीयम् ।। २१७ ।।
प्रच्छेदक लक्षयति-प्रन्यासक्तमिति । पति- स्वामिनम्, अन्यासक्तम् = अभ्यस्याम् ( स्वभिन्नायाम् ) आसक्तम् (तत्परम् ), मत्वा = ज्ञात्वा, प्रेम विच्छेदभन्युना = प्रणयमङ्गशोकेन, वीणापुरःसरं = वीणावादनपूर्वकं, स्त्रियाः = नार्या, यद् गानं = गीतं, तत् "प्रच्छेदक" नाम- लास्याङ्गम् । उदाहरणं भर्तृहरिनिवेदे नाटके भानुमत्या गानम् ॥ २१८ ।।
त्रिगूढकं लक्षयति-स्त्रीवेषेति। स्त्रीवेषधारिणां = नारीनेपथ्यकारकाणां, पुंसां - पुरुषाणां, श्लक्ष्णं = मनोहरं, नाट्यं = स्त्रीरूपेणाऽभिनयः, "त्रिगूढक" नाम लास्याऽङ्गम् । यो वाग्वेषव्यवहाराः गूढा यस्मिस्तत् त्रिगूढकमिति व्युत्पत्तिः । शेषाद्विभाषा" इति समासान्तः कप् ।
त्रिगूढकमुदाहरति-यति । मालत्या = मालतीमाधवे।
सैन्धवं लक्षयति-कश्चनेति । भ्रष्टसङ्केतः च्युतसङ्केतः, सुव्यक्तकरणाऽन्वित:सुव्यक्तं ( सुस्पष्टम् ) यत् करणं ( वीणादिवादनक्रिया ) तेन अन्त्रितः ॥ २१९ ॥और पुरुषकी विपरीत चेष्टा होती है उसे "पुष्पगण्डिका" कहते हैं ।। २१७ ।।
प्रच्छेदक-जहाँपर पतिको दूसरी स्त्रीमें आसक्त समझकर प्रणयके भङ्गके शोकसे स्त्री बीन बजाकर गाना गाती है, उसे "प्रच्छेदक" कहते हैं ॥ २१८ ॥
त्रिगढ-स्त्रीके वेषको धारण करनेवाले पुरुषोंके मनोहर नाट्य-( स्त्रीरूपसे अभिनय ) को "त्रिगूढक" कहते हैं।
जैसे मालती (माधव)में--मकरन्द-"यह मैं मालती हुआ हूँ"।
सैन्धव--भ्रष्ट सङ्केनवाला कोई पुरुष स्पष्ट वीन आदि बाजा बजानेके कर्मसे युक्त होकर ।। २१९ ॥---