SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः भूयादव्यभिचारिणी त्रिजगतो भक्तिश्च नारायणे ।' अत्र चोपसंहारप्रशस्स्योरन्त एकेन क्रमेणैव स्थितिः। . 'इह च मुखसंधौ. उपक्षेपपरिकरपरिन्यासयुक्त्युभेदसमाधानानां, प्रतिमुखे च परिसर्पणप्रगमनवोपन्यासपुष्पाणां गर्भऽभूताहरणमार्गत्रो(तो). टकाधिवलक्षेपाणां विमर्शेऽपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् । अन्येषां च यथा सम्मषं स्थितिः' इति केचित्। चतुःषष्टिविकं तदङ्ग प्रोक्तं मनीषिभिः । कुर्यादनियते तस्य संघावपि निवेशनम् ।। ११५ ।। रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता । भगवति श्रीविष्णी, अव्यभिचारिणी व्यभिचाररहिता, ऐकान्तिकोति भावः । भक्तिश्च= अनुरक्तिका, भूयात् = भवतात् । शार्दूलविक्रीडितं वृत्तम् । ___ अत्र राजदेशादीनां शान्तेराशंसया प्रशस्ति मोपसंहारसन्धेरङ्गम्, तत्तत्सन्धिषु तत्तदङ्गानां प्राधान्य प्रदर्शयति-इहेति । अन्येषां = विलोमनादीनामङ्गानाम् । स्वीयं मतं दर्शयति-चतुःषष्टिविधर्मिति। मुखाऽङ्गानि द्वादश, प्रतिमुखाऽङ्गानि त्रयोदश, गर्भाङ्गानि, विमर्शाङ्गानि निर्वहणाऽङ्गानि च तावत्येव समष्टया चतुःषष्टिरिति निर्वहणाङ्गप्रशस्तिनिराकरणकारिणः । येषां मते प्रशस्तिस्वीकृतिस्तत्र गर्भागभूतायाः प्रार्थनाया अस्वीकृ'तः । इत्थ च पक्षद्वयेऽपि चतुःषष्टिविधान्यङ्गानि । रसाऽनुगुणतां-- रसस्य (शृङ्गारादेः ) अनुगुणताम् ( अनुकूलताम् ), वीक्ष्य दृष्ट्वा, अनियते = अनिर्दिष्टे, सन्धावपि, तस्य-अगस्य, निवेशनं = प्रवेशनं, कुर्यात् । हि= यस्मा द्धतोः रसस्यैव मुख्यता ।। ११५॥ . उदाहरति-यथेति । संधारणं कर्तव्ये युक्तिरूपं मुखसन्धे रङगम् । नियमःतत्सन्ध्यङ्गस्थ तत्सन्धावेव निवेश इत्येवरूपः लक्ष्यविरुद्ध महाकविप्रयोगविरुद्धम् । रह रहें । भूमण्डलमें अतिप्रचुर धान्य और सुवर्णों की समृद्धियां हों। तीन लोकोंके जनोंको श्रीनारायणमें अव्यभिचारिणी ( ऐकान्तिकी ) भक्ति हो । यहाँ अन्तमें उपसंहार और प्रशस्ति की इसी क्रमसे स्थिति होती है। इन अगोंमें मुखसन्धिमें उपक्षेप, परिकर, परिन्यास युक्ति, उद्भद और समाधानकी प्रधानता होती है इसी तरह प्रतिमुखमें परिसर्पण, प्रगमन, वज्र, उपन्यास और पुषकी, गर्भ में अभूता. हरण, मार्ग, त्रो (तो) टक, अधिबल और क्षेपकी, तथा विमर्श सन्धि में अपवाद, शक्ति, व्यवसाय, प्ररोचना और आदानकी प्रधानता होती है। अवशिष्ट अगों की यथा संभव. स्थिति रहती है। ऐसा कुछलोग कहते हैं । विद्वानोंने इस प्रकारसे चौसठ प्रकारके अङ्गों को माना है। रसकी अनुकूलताको देखकर अनिर्दिष्ट सन्धिमें भी अङ्गका निवेशन करें, क्योंकि उसकी ही मुख्यता है।११॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy