________________
षष्ठः परिच्छेदः
समाश्रित्यापि कर्तव्यमामुखं नाटकादिषु । एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत् ॥ ४० ॥ तेनार्थमथ पात्रं वा समाक्षिप्येव सूत्रधृक् । प्रस्तावनान्ते निर्गच्छेतो वस्तु प्रयोजयेत् ॥ ४१ ॥ वस्त्वितिवृत्तम् ।
इदं पुनर्वस्तु बुधैर्द्विविधं परिकल्प्यते । आधिकारिकमेकं स्यात्प्रासङ्गिकमथापरम् ।। ४२ ॥ अधिकारः फले खाम्यमधिकारी च तत्प्रभुः । तस्येतिवृत्तं कविमिराधिकारिकमुच्यते ॥ ४३ ॥
पूर्वोक्तानाम्,
= आमुख •
आकाशवचनम् = आकाशभाषितं श्रुतम् - आकणितं समाश्रित्य - विधाय, नाटकादिषु, आमुख - प्रस्तावना | कर्तव्यं = विधेयम्, सूत्रधृक् = सूत्रधारः, एषां आमुखभेदानां = प्रस्तावनाविशेषाणाम्, एक, प्रयोजयेत् = कुर्यात् । तेन प्रयोगेण अर्थ - वस्तु, अथ अथवा, पात्रं, समाक्षिप्य= समाश्रित्य एव प्रस्तावनाऽन्तेआमुखाऽवसाने, निर्गच्छेत्, ततः - अनन्तरं वस्तु - इतिवृत्त, प्रयोजयेत् = विदधीतः अभिनयाऽर्थमिति शेषः ।
वस्तुविषयं प्रदर्शयति- इदमिति । बुधः - विद्वद्भिः, इदं वस्तु = इतिवृत्तं द्विविधं - द्विप्रकार, परिकल्प्यते = विरच्यते, तयोरेकम्, आधिकारिकम् = अधिकारिण: ( फलस्वामिनः ) इतिवृतम् ( वस्तु ) । अपरम् = अत्यच्च प्रासङ्गिकं - प्रसङ्गेन निर्वृत्तम् ॥ ४२ ॥
कारिकायामेव तद्वयं विवृणोति - प्रधिकार इति । फले = प्रधानफले, स्वाम्यं = स्वामित्वं, मुख्यफलभोक्तृत्वम्, अधिकारः । तत्प्रभुश्च तस्य ( मुख्य फलस्य ) प्रभुः (भोक्ता ), अधिकारी । कविभिः, तस्य - अधिकारिणः, इतिवृत्तं वृत्तान्तः, आधिकारिकमुच्यते ॥ ४३ ॥
सूत्रधार इन उद्घात्मक आदि भेदोंमें किसी एक भेदका प्रयोग करें ॥ ४० ॥ उससे वृतान्त अथवा पात्रका आक्षेप कर प्रस्तावनाके अन्त में बाहर निकल जाय, तब इतिवृत्तका प्रयोग करें ॥ ४१ ॥
वस्तुको विद्वान् लोग दो प्रकारकी मानते हैं आधिकारिक और प्रासङ्गिक || ४२ ॥
मुख्य फलमें स्वामित्व अधिकार है उसका स्वामी अधिकारी है उस अधिकारीके इतिवृत्तको विद्वान् "आधिकारिक" कहते हैं ॥ ४३ ॥