SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः . . ३९५ भवेदगूढशब्दाः क्षुद्रचूर्णकसंयुतः ॥ १२ ॥ विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नबिन्दुकः । युक्तो न बहुभिः काबीजसंहृतिमान च ॥ १३ ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां कार्याणामविरोधाद्विनिर्मितः ॥ १५ ॥ नानेकदिननिवर्त्यकथया संप्रयोजितः । आसन्ननायकः पा–यु तस्त्रिचतुरैस्तथा ॥ १५ ॥ अगढशब्दाऽर्थः अगूढः (अति गहितः ) शब्दाऽर्थः (पदाऽर्थः ) यस्मिन् सः। क्षुद्रचूर्णक. संयुत:-क्षुद्राणि (अल्पानि) यानि चूर्णकानि (अल्पसमासगद्यानि) तैः संयुतो भवेत् ।।१२।। विच्छिन्नाऽवान्तरकाऽर्थः = विच्छिन्नः ( समाप्तः ) अवान्तरकाऽर्थः ( एकदेशरूपाऽर्थः) यस्मिन् सः । किञ्चित्संलग्नबिन्दुकः = किञ्चिसंलग्नाः ( किश्चित्सम्बद्धाः) बिन्दवः ( अवान्तराऽर्थविच्छेदे अविच्छेदकारणभूताः अर्थप्रकृतिविशेषाः ) यस्मिन् सः । 'शेषाद्विभाषा" इति समासाऽन्तः कप् । बहुभिः कार्ययुक्तो न, तथा बीजसंहतिमान् नबीजस्य (फलप्रथमहेतोः) संहतिः ( समाप्तिः ), तद्वान् न स्यात् । बीजसमातियुक्तोऽडो न कार्य इति भावः ।। १३ ॥ - नानाविधानसंयुक्तः = नानाविधान: ( अनेककर्मभिः ) संयुक्तः। अतिप्रपुर. पद्धवान् = अत्यधिकपद्ययुक्त : न नरन्तर्येण अधिकपद्यान्यके. नो भवेयुरिति भावः। पावश्यकानां कार्याणां = सन्ध्यावन्दनादोताम् ।। अविरोधात् विनिर्मितः = रचितः, अङ्को भवेत् ॥ १४ ॥ . अनेकदिननिर्वयं कथया = बहुदिवससमापनीयकथया, संप्रयोजितः = संयोजितः न स्यात् । आसन्ननायकः = आसन्न: (निकटस्थः ) नायकः (नेता, धीरोदात्तादिः) यस्मिन् सः । तथा त्रिचतुरैः = त्रीणि चत्वारि वा त्रिचतुराणि, :, त्रिचतुःसंख्यकः । पात्रः = सहायः युत: स्यात् । त्रिचतुरंरित्यत्र "संख्ययाऽव्ययासनादूराऽधिकसंख्याः संख्येये” इति समासः, "बहुव्रोही संख्येने डजबहुगणात्" इति समासान्तो डच् ॥ १५॥ गढ अर्य नहीं होना चाहिए, छोटे छोटे समासवाले गद्य चाहिए ॥ १२॥ ___ अवान्तर अर्थ समाप्त होना चाहिए और कुछ विन्दु लगा रहना चाहिए । बहुत कार्योंसे युक्त नहीं होना चाहिए और बीजका उपसंहार न हो ॥ १३॥ . ___ अनेक विधानोंसे युक्त न हो, पद्य भी ज्यादा न हो आवश्यक कार्योंकी विरोध. के बिना रचना होनी चाहिए ॥ १४॥ अनेक दिनों में समाप्त होनेवाली कथाका प्रयोग नहीं हो नायक निकट हो और धीन चार पात्रोंसे युक्त हो ॥१५॥ -- -
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy