________________
चतुर्थः परिच्छेदः
११३
कृति कविप्रौढोक्तिसिद्ध वस्तु प्रकाशीभवद् मदनविजम्मणरूपं वस्तु व्यनक्ति । 'रजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! | 'घयलयति भुवनमण्डलर्माखलं तव कीर्तिसंततिः सततम् ॥' अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीर्तिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्गयः ।
चरव्यं, पुष्पाणि = सहकारकुसुमानि शराः = बाणा इति कविप्रौढोक्तिसिद्धं = कवि'प्रोक्त्या ( कवयितृकाल्पनिकवचनेन, न तु लोकसिद्धेन ) उक्त्या ( वचनेन ) सिद्ध ( निष्पन्नम् ) वस्तु = अनलङ्कारः पढार्थः, प्रकाशोभवत् = व्यक्तीभवत्, मदनविजृम्भण:रूपं - कामदेव संवर्द्धन स्वरूपं, वस्तु - पदार्थ, व्यनक्ति = व्यञ्जनया प्रतिपादयति । अत्र -बसन्तादीनां शरकारत्वादिक वस्तु अलीकत्वान्न लोकसिद्धमतः कविप्रौढोक्तिसिद्धवस्तुना वस्तुध्वनेरुदाहरणमिदं संगच्छते ।
=
कस्य ●
कविप्रौढोक्ति सिद्धवस्तुनाऽलङ्कारध्वनिमुदाहरति — रजनीव्विति । चिद्राज्ञ: स्तुतिरियम् । हे वीर = हे शूर, तव = भवतः, कीतिसन्ततिः = यशः पङ्क्तिः विमलभानोः = निर्मलकिरणस्य, चन्द्रस्येत्यर्थः । करजालेन = किरणसमूहेन, रजनीषु - रात्रिषु प्रकाशितं - दीपितम्, अखिलं समस्तं भुवनमण्डलं = लोकसमूह, सततं निरन्तरें, रात्रिन्दिवमिति भावः । धवलयति = धवलं करोति, "तस्करोति तदाचष्ट" इति बिजन्ताल्लट् । अत्र आर्या वृत्तम् ।
·
अत्र = अस्मिन्पद्य कविप्रौढोक्तिसिद्धेन = कवेः ( काव्यकर्तुः ) प्रौढोक्तिसिद्धेन ( न तु लोकसिद्धेन ) वस्तुना, कीर्तिसन्ततेः = यशः परम्परायाः, चन्द्रकरजालात् = इन्दुकिरणसमूहात, अधिककालप्रकाशकत्वेन - बहुसमयं यावत् प्रकाशकारित्वेन, व्यतिইकाऽलङ्कारः, व्यङ्गघः - व्यञ्जनया प्रतिपाद्यः । चन्द्रकरजालं रात्रावेव प्रकाशक न तु दिवा पर राजकीर्तिसन्ततिस्तु अहदिव प्रकाशिका अत उपमानाच्चन्द्रकरजालादुपमेयाः कीर्तिसन्ततेरा धिक्याद्वयतिरेकालङ्कारो व्यङ्ग्य इति भावः ।
बुबतियाँ लक्ष्य, और पुष्प शर हैं इस प्रकारसे कविकी प्रोढ उक्तिसे सिद्ध वस्तु (न कि बाह्य जगत में सिद्ध प्रकाशित होकर कामदेवके संवर्द्धनस्वरूप वस्तुको व्यञ्जनासे प्रतिपादित करता है ।
कविप्रोढोक्तिसिद्ध वस्तुसे प्रलङ्कार ध्वनि उ०- कोई कवि किसी राजाकी स्तुति करता हैं । हे वीर ! आपकी कीर्तिपरम्परा निर्मल किरणवाले चन्द्रमाके किरणसमूहसे रात्रियों में प्रकाशित समस्त लोक मण्डलको निरन्तर (दिन रात ) सफेद कर रही है ।। इस पद्य में कविकी प्रौढ उक्तिसे सिद्ध वस्तुसे कीर्तिकी परम्पराका चन्द्रमाके किरणसमूहसे भी अधिक समयतक प्रकाशन होनेसे व्यतिरेक अलङ्कार व्यङ्ग्य है ।