________________
१७४
साहित्यदर्पणे
अथ कुट्टमितम्
केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरस्करविधूननम् ।। १०३ ।। यथा'पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे । पयेकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।।' अथ विभ्रमः
त्वरया हपरागादेदयितागमनादिषु । अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः ।। १०४ ।।
कुट्टमितं लक्षयति-केशस्तनाऽघरादीनामिति । केशस्तनाऽधरादीनां = कचपयोधरोष्ठादीनां, ग्रहे = ग्रहणे, नायकेनेति शेषः, हर्षेऽपि = प्रमोदेऽपि, संभ्रमात् == त्वरायाः, शिरःकरविधूननं = मस्तकहस्तकम्पन, कुट्टमितं नाम, प्राहुः = कथयन्ति, आलङ्कारिका इति शेषः ।। १०२ ॥
कुट्टमितमुदाहरति-पल्लवोपमितिसाम्यसपक्षमिति । अभीष्टे -- प्रिये, पल्लवोपमितिसाम्यसपक्षं = किसलयोपमानसमतासदशम्, अधरविम्बम् = ओष्ठबिम्ब, दष्टवति = क्षतयुक्तं कुर्वति सति, सरुजा इव = पीडायुक्तेन इव, तारलोलवलयेन = उच्चस्वरचक्षलकङ्कणेन, तरुण्या: = युवत्याः, करेण = हस्तेन, पर्यकूजि-परिकूजितम्, निषेधाऽर्थमिति भावः । अत्र नायिकायाः शिरःकरकम्पनात् कुट्टमितं नामाऽलङ्कारः। उत्प्रेक्षा नामाऽर्थालङ्कारः । स्वागता वृत्तम् ।। १०३ ।।
विभ्रमं लक्षयति-त्वरयेति । दयिताऽऽगमनादिषु = दयितस्य (प्रियस्य ) आगमनादिषु (आगमनप्रभृतिषु), अत्रादिपदेन उत्सवादिषु इत्यों बोध्यः । हर्षरागादेः प्रमोदाऽनुरागादेः, आदिपदेन दयिताभिसरणादेच, त्वरया = संभ्रमेण, भूषणादीनाम्= . अलङ्कारादीनां, विन्यासः = स्थापनं, विभ्रमः, मतः = संमतः ॥ १०४ ॥
कुट्टमित-केश, स्तन और अधर आदि अङ्गों में नायकके ग्रहण करनेसे हर्ष होनेपर भी घबराहटके साथ शिर और हाथोंको कम्पित करनेको "कुट्टमित" कहते हैं१०३
उ०-प्रियसे पल्लवके समान अधरके दष्ट होनेपर तरुणीके उच्चस्वरयुक्त चञ्चल कङ्कणसे विभूषित हाथने पीडितके समान होकर आवाज की।
विभ्रम-प्रियके आगमन आदिमें हर्ष और अनुराग आदिके हेतुसे जल्दबाजीके कारण अस्थानमें ( बेठिकाने ) अलङ्कार आदि पहननेको "विभ्रम" कहते हैं ।।१०४॥