________________
यथा
'पाणिरोधमविरोधितवाञ्छं भर्त्सनाच मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुहरि शुष्करुदितं च सुखेऽपि ॥' अथ मोट्टायितम्
तृतीयः परिच्छेदः
यथा
'सुभग ! त्वत्कथारम्भ कर्णकण्डूतिलालसा | उज्जृम्भवदनाम्भोजा भिनन्त्यङ्गानि साऽङ्गना ॥'
-
तद्भावभाविते चित्ते वल्लभस्य कथादिषु । मोट्टायितमिति प्राहुः कणकण्डूयनादिकम् ।। १०२ ।।
1
किलकिचितमुदाहरति - पाणिरोधमिति । करभोरु:- सुन्दरी, अविरोधितवाञ्छम् = अप्रतिबद्धप्रियमनोस्थं यथा तथा कामिनः प्रियस्य, पाणिरोधं नीवीमोक्षप्रवृत्त करनिवारणं, मधुरस्मितगर्भाः मधुरं ( मनोहरम् ) स्मितं ( मन्दहास्यम् ) गर्भे ( अभ्यन्तरे) यासां ताः, भर्त्सना: तर्जनवचनानि एवं च सुखेऽपि = हर्ष समयेऽपि, हारि = मनोहरं, शुष्करुदितं च = कृत्रिमरोदनं च कुरुते स्म == विदधाति स्म । अत्र नायिकायाः स्मितशुष्करुदितयोः साङ्कर्यात्किलकिञ्चितम् । वृत्तम् ।। १०१ ।।
स्वागता
मोट्टाति लक्षयति - तद्भावभावित इति । वल्लभस्य प्रियस्य, कथाssदिषु = सख्या सह कयाप्रसङ्गादिषु, चित्ते मनसि नायिकाया इति शेषः । तद्भावभाविते सति प्रियानुरागनिषेविते सति । कर्णकण्डूयनादिकं = श्रोत्रविघर्षणादिकं, मोट्टायितम् इति । प्राहुः = कथयन्ति, अलङ्कारशास्त्रिण इति शेषः ॥ १०२ ॥
मोट्टायितमुदाहरति - सुभगेति । नायिकासखी नायकं प्रति नायिकाया नायकप्रणयं प्रतिपादयति । हे सुभग = हे सौभाग्यशालिन् !, त्वत्कथाऽऽरम्भे = भवत्कथनो. पक्रमे सति, कर्णकण्डूतिलालसा - श्रोत्रविघर्षणभृशोत्लुका, तथा उज्जृम्भवदनाऽम्भोजा= उज्जृम्भम् ( उद्गतजृम्भणम् ) वदनाऽम्भोजं ( मुखकमलम् ) यस्याः सा तादृशी, सा = भवदुपभुक्ता, अङ्गना = नायिका, अङ्गानि = देहाऽवयवान्, भिनत्ति मर्दयति । अत्र कर्णकण्डूतिवदनजृम्भगाङ्गभेदन करणान्मोट्टायितं नामालङ्कारः ।। १०२ ।
---
१७३
=
25
O
उ० – सुन्दरी | इच्छाका विरोध न होनेके तौरपर हाथकी रुकावट, मन्दहास्यपूर्वक तर्जन, और सुखमें भी मनोहर शुष्करोदन करती है ।
पोट्टायित प्रियकी चर्चा आदिके प्रसङ्गोंमें, उसके अनुरागसे व्याप्त चित्त होनेपर कानको खुजलाना आदि कर्मको "मोट्टायित" कहते हैं ।। १०२ ।।
उ०- हे सौभाग्यशालिन् ! तुम्हारे कथन के आरम्भ में वह सुन्दरी कान बुजलाने में लालसा करती है, जंभाई लेती है और अंगड़ाई लेती है ।