SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः - - नहि कश्चित् सचेतन आत्मनो दुःखाय प्रवर्तते। करुणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात् सुखमयत्वमेव । अनुपपत्त्यन्तरमाह तथा रामायणादीनां भविता दुःखहेतुता ॥ ५॥ करुणरसस्य दुःखहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङगः स्यात् । ननु कथं दुःखकारणेभ्यः सुखोत्पत्तिरित्याह हेतुत्वं शोकहर्षादेगतेभ्यो लोकसंश्रयात् । शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥ ६ ॥ विवणोति-न होति । सचेतनः = सहृदयः । सकलस्याऽपि = जनस्य । करुणादिषु = करुणबीभत्सभयानकादिषु, साऽभिनिवेशप्रवृत्तिदर्शनात् = साऽभिनिवेशा ( आग्रहसहिता ) या प्रवृत्तिः ( चेष्टा ) तदर्शनांत ( तद्विलोकनात् )। अनुपपत्यन्तरम् = अन्याम् अनुपपति, करुणादीनां दुःखमयत्व इतिशेषः । तथेति। तथा = तेनैव प्रकारेण, रामायणादीनां प्रबन्धानां, दुःखहेता = दुःख जनकता, भविता = भविष्यति ॥ ५ ॥ विवृणोति-दुःखहेतुताप्रसङ्गः = दुःखजनकताऽवसरः । स्याद = भवेत् । करुणादी सुख जनकतामाशङ्कते-नन्विति। दुःखकारणेभ्यः = रामायणादी दुःखहेतुभ्यः = दुःखकारणे यो रामादिनिभावेभ्य इति भावः । कथं सुखोत्पत्तिः= आनन्दाऽऽविर्भावः । इति == आशङ्कायाम्, आह = कथयति । कारिकायां समाधत्ते-हेतत्वमिति । लोकसंश्रयात् = ल्यब्लोपे पञ्चमी, लोकाऽऽश्रयं प्राप्य, शोकहर्षादे:--मन्युप्रमोदादेः, हेतुत्वं कारणत्वं, गतेभ्यः प्राप्तेभ्यः, तेभ्य: -- रामवनवासादिभ्यः, लोके = जगति, न तु काव्ये इति शेषः । लोकिकाः = लोकोत्पन्ना: न. तु अलौकिकाः, गोकहर्षादयो जायन्तां नाम = उत्पद्यन्ता नाम । नामेति प्रसिद्धौ ।। ६॥ लिए काई तत्पर नहीं होता। न होति । काई भी सहृदय अपन दुःखके लिए प्रवृत्त नहीं होता है, परन्तु करण आदि रसोंमें सभी की आग्रहपूर्वक प्रवृत्ति देखनेसे वे भी मुखमय ही हैं। दुगरी अनुपपत्ति देते हैं-तथेति । करुण रसको दुःखमय मानेंगे तो करुप प प्रधान रामायण आदि प्रयन्त्र भी दुःखके हेतु होंगे ।। ५ ॥ फिर प्रश्न करते है - नन्विति । तव तो दुःखके कारणों से कैसे मुखकी उत्पत्ति होगी? इसपर कहते हैं-हेतुत्वमिति । लोकके आश्रयसे शोक और हर्ष आदिके हेतुभूत राम आदिके वनवास आदिसे लौकिक शोक और हर्ष जादि भले ही हो जायं ।। ६ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy